________________ सूत्रं 4 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 275 वक्ष्यमाणाः भवनपत्यादीनाम्, अधिवासवाची चायं कल्पशब्दः / अन्ते परिगताः पर्यन्ताः, कल्पोपपन्नाः पर्यन्ता येषां त इमे कल्पोपपन्नपर्यन्ताः कल्पाश्च द्वादश वक्ष्यमाणाः सौधमादयोऽच्युतपर्यवसानाः, तत्पर्यन्तमेतच्चतुष्टयं भवतीत्यावेदयति, परे तु द्विर्विकल्पाः-प्रैवेयकवासिनो विजयादिविमानपञ्चकनिवासिनश्च / / ... भा०–ते च देवनिकाया यथासङ्ख्यमेवंविकल्पा भवन्ति / तद्यथा दशविकल्पा भवनवासिनः असुरादयो वक्ष्यन्ते / अष्टविकल्पा भवनपत्यादिदेवानां भेदविचारः व्यन्तराः किन्नरायः। पञ्चविकल्पा ज्योतिष्काः सूर्यादयः / द्वादशविकल्पा वैमानिकाः कल्पोपपन्नपर्यन्ताः सौधर्मा दिष्वपि // 3 // टी०--ते च देवनिकाया इत्यादि भाष्यं सुज्ञानमेव // 3 // अनुधा दशादिभेदान् प्रत्येकं पुनर्विभित्सुराहप्रतिकल्पमिन्द्राया सूत्रम्--इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपाभेदार ____ लानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः॥४-४॥ भा०-एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति / तद्यथा-इन्द्राः, सामानिकाः, प्रायस्त्रिंशाः, पारिषद्याः, आत्मरक्षाः, लोकपालाः, अनीकाधिपतयः, अनीकानि, प्रकीर्णकाः, आभियोग्याः, किल्बिषिकाश्चेति / तत्रेन्द्रा भवनवासिव्यन्तरज्योतिष्कविमानाधिपतयः / इन्द्रसमानाः सामानिकाः अमात्यपितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः / त्रायस्त्रिंशाः-मन्त्रिपुरोहितस्थानीयाः। पारिषद्याः-वयस्यस्थानीयाः। आत्मरक्षाः-शिरोरक्षस्थानीयाः / लोकपाला आरक्ष(क्ष)कार्थचरस्थानीयाः। अनीकाधिपतयो-दण्डनायकस्थानीयाः। अनीकानि-अनीकस्थानीयान्येव / प्रकीर्णकाः-पौरजनपदस्थानीयाः / आभियोग्याः-दासस्थानीयाः / किल्बिषाः-अन्तस्थस्थानीया इति // 4 // टी०-एकैकशश्चैतेष्वित्यादि भाष्यम् / दशानामेकैकस्मिन् भेदे एकशो दश दशेन्द्रादयो भवन्ति भेदाः, एवमितरेष्वप्यष्टादिषु / तत्रेन्द्रा इत्यादि। इन्द्राः सामानिका दिभेदानां नवानामधिपतयः परमैश्वर्ययुक्ताः / सामानिकास्त्विन्द्रतुल्या भवन्त्यायुष्कादिभिः, केवलमिन्द्रत्वं सकलकल्पाधिपत्वं नास्ति, शेष समानम्, अतः समानस्थाने भवाः सामानिकाः समानस्य तदादेश्चेति वचनादौपसङ्ख्यानिकष्ठक / अन्यस्यानिर्देशादिन्द्रैः सह समानभावः प्रत्यासन्नै( ते 1 )श्चेति, ते चामात्यापितगुरूपाध्यायमहत्तरवद 1 'दिध्विति ' इति घ-पाठः / 2 'शत्पा० ' इति ग-पाठः / 3 किल्बिषिका ' इति घ-पाठः।