________________ 274 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 देवः पञ्चेन्द्रियतिर्यग्योनिजो मनुष्यो वा देवायुषि बद्धेऽनन्तरागामिजन्मनि यो देवतयोत्पत्स्यतेस त्वागामिनीवृत्तिमाश्रित्य देव इति प्रज्ञायते तद्दलिकत्वाद् दारुच्छेदप्रज्ञापनवत्,नरदेवाः-चक्रवर्तिनो रत्नचतुर्दशकाधिपतयः शेषमनुजोत्कृष्टत्वात्,धर्मदेवाः-साधवो यथोक्तप्रवचनार्थानुष्ठा यिनः सद्धर्मप्रधानव्यवहारत्वात्, देवाधिदेवाः-तीर्थकरनामकर्मोदयवर्तिनः कृतार्थाः सदुपदेशेन भव्यसत्त्वानामनुग्राहकत्वाच्छेषदेवपूज्यत्वाच, भावदेवाः पुनः भवनवनचरज्योतिष्कमानिका देवगतिनामकर्मोदयलक्षिताः देवायुषो वेदकाः क्रीडाधतिशयवर्तित्वादिति, एवं पञ्चभेदेषु सत्सु देवेषु किमर्थ चतुर्निकाया इति ? उच्यते-भावदेवानामेवात्र विवक्षितत्वाचतुनिकायत्वम्, तथा च पातनिकाग्रन्थे सर्वत्र भावप्रस्तावः मूरिणा दर्शितः / अपि चाद्याश्यत्वारो मनुष्या एव कश्चिदतिशयमङ्गीकृत्य देवा इति यथा तथा प्रतिपादितमेव, तस्माद् भावदेवाश्चतुर्निकाया इति युक्तमुक्तं आचार्येण, ऊर्ध्वलोकस्वरूपाख्यानप्रस्तावे च तदधिकारादिति // 1 // अथ कथमेतत् प्रतिपत्तव्यं देवाश्चतुर्निकायाः सन्तीति ? उच्यते-तदेकदेशनिकायप्रत्यक्षत्वात् तत्सद्भावावगमकोऽयमनुमानभूत उपलभ्यते सूत्रम्-तृतीयः पीतलेश्यः // 4-2 // भा०-तेषां चतुर्णा देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति / कश्चासौ ? ज्योतिष्क इति // 2 // टी-तृतीयः पीतलेश्यः, नहि प्रत्यक्षमपह्नोतुं शक्यम्, प्रमाणज्येष्ठत्वात्, चन्द्रादित्यादिविमानानि हि प्रत्यक्षप्रमाणसमधिगम्यानि, तानि च कदाचित् केनचिदधिष्ठितान्यपि का, निवासत्वान्नगरपामगेहादिवत्, ये च तेषामधिष्ठातारस्ते ज्योतिष्का देवा इति प्रतीयताम्, तच्छेपास्तु तदेकदेशदृष्टेः सेनावनादिवत् प्रतिपत्तव्या इति / तृतीय इति क्रमसन्निवेशमार्षमङ्गीकृत्येदमुच्यते, अथवा वक्ष्यमाणमिहत्यमेवाभिसन्धाय-ज्योतिष्कदेवनिकायस्तृतीय इत्युक्तम् / पीता लेश्या यस्यासौ पीतलेश्यः, इह च द्रव्यलेश्या-शरीरवर्णः प्रतिनियम्यते, नाध्यवसायविशेषः, लेश्याः षडपीष्यन्ते देवानां प्रतिनिकायमिति / तेषां चतुर्णामित्यादि भाष्यम् / तेषां-पूर्वसूत्रोपन्यस्तानां चतुःसङ्ख्यानियतानां देवसमूहानां तृतीयो देवनिकायः पीतलेश्य एव भवतीति, सामर्थ्यादवधारणोपपत्तेरेवशब्दो नोपात्तः, साक्षाद् दर्शितश्च सामर्थ्याल्लभ्यो विवृण्वतेति / कश्चासौ तृतीय इत्यविज्ञातक्रमसन्निवेशस्य नामग्राहमाचष्टेज्योतिष्क इति // 2 // ते च निकाया यथासङ्ख्यं भवनपतिव्यन्तरज्योतिष्कवैमानिकाख्याः / / सूत्रम्--दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः॥४-३ // टी०-खनिकायापान्तरालभेदनियमः क्रियतेऽमुना योगेन, अमी च दशादयो भेद