________________ सूत्रं 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 335 टी-जीवस्थ हीत्यादि / यस्माज्जीवस्य प्रदेशानां सङ्कोचविकासाविष्येते, पटस्येव पिण्डितविततावस्थायिता, प्रदीपप्रकाशस्येव सङ्कुचनप्रसारणे, चर्ममण्डलस्येव संहारविसाविति // ननु च तद्वदेवानित्यः स्यात्, असाम्प्रतमिदम्, नहि स्याद्वादिभिः प्रदीपादीनामनित्यत्वसेकान्ततोऽभ्युपगम्यते, द्रव्यपर्यायनयद्वयाविष्टत्वात् सर्वस्य वस्तुन इत्यतो नित्यानित्यादिविकल्पभाजः सर्वे पदार्था इति सगरो जैनानाम् / आत्माऽप्येवंधर्मक एवेति चेत्, सिद्धसाध्यता / एतेनैतदपि प्रत्युक्तम् ___ "वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् / - चर्मोपमश्चेत सोऽनित्यः खतुल्यश्चेदसत्केलः // " नव्योमैकान्तेन नित्यं नापि चर्मानित्यमुत्पादादित्रययुक्तत्वाद् विश्वस्य वस्तुनः, तच्चोक्तं वक्ष्यते च, एकान्तनित्यानित्ययोश्च कर्मफलसम्बन्धाभावः // दीपस्य सङ्कोचविकासप्रदिदर्शयिषया आह भा०-तद्यथा-तैलवय॑ग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशाला प्रकाशयति, अण्वीमपि, माणिकावृतो माषिकां, द्रोणावृतो द्रोणं, आढकाकृतबाढकं, प्रस्थावृतः प्रस्थं, पाण्यावृतः पाणिमिति // टी-तद्यथा-तैलवर्तीत्यादि। भास्वत्किरणनिकरः प्रदीपो माणिकाढकप्रस्थावधिकरणसम्बन्धी निरावरणव्योमसमन्धकारावधृतप्रमाणः तेजोऽवयवसंहारादल्पोऽल्पतरोऽल्पतमो वाऽन्यतमश्च लक्ष्यते, स एव चापनीतसकलस्थगनको विद्योतमानमूलमूर्तिरदभ्रं व्योमदेशमवभासयति, तैलवत्येन्युपादानप्रवृद्ध इत्यनेनाविकलां कारणसामग्रीमाचष्टे, कूटागारशालादिभिरनेकामवस्थामादर्शयति, अपरित्यक्तस्वात्मावयवोऽप्यनेकमाकारमादत्ते प्रदीपः // भा०-एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविध शरीरस्कन्धं धर्माधर्माकाशपुगलजीवप्रदेशसमुदायं व्यामोतीति, अवगाहत इत्यर्थः // टी०–एवमेव प्रदेशानामित्यादि भाष्यम् / दार्टान्तिके दृष्टान्तार्थमुपसंहरति-पञ्चविधमौदारिकादिशरीरसङ्घातं धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायम्, अवश्यमेव हि लोकाकाशे धमाधमोकाशपुद्गलाः सन्ति, जीवप्रदेशाश्च भजनीयाः, यत्रैकोऽवगाढो जीवस्तत्रान्यस्याप्यवगाहो न विरुद्धयत इति, एवं धर्मादिसमूहं व्यानोति, अवगाहत इत्यर्थः / भा०-धर्माधर्माकाशजीवानां परस्परेण पुद्गलेषु च वृत्तिर्न विरुद्धयते, अमूर्तत्वात्। 'असत्फलं' इति क-ख-पाठः / २०शयति अथो (2) मणिका' इति क-ख-पाठः, तत्र अण्वीमपीति नास्ति / 3 अनावृतस्तु स्वावयवमानमाकाशं व्याप्नोति, न तु सर्व जगत्, आत्मा तु समुद्घातकाले लोकव्यापी, सिद्धिकाले तु त्रिभागोनावशिष्टः, अशुषिरसंभूतशरीरानुकार्यवगाहादनन्तरं निष्प्रयोजनत्वेन अवगाहसंकोचाभावः / एकस्मिन्नाकाशदेशे अनेकजीवानेकप्रदेशावगाहात् /