________________ [ अध्यायः 5 334 तत्त्वार्थाधिगमसूत्रम् अथ जीवानां कियति क्षेत्रेऽवगाह इति उच्यते सूत्रम्-असख्येयभागादिषु जीवानाम् // 5-15 // टी०-असख्येयभागादिष्वित्यादि मूत्रम् / असङ्ख्येयभागादिष्विति समानाधिकरणगर्भो वहुव्रीहिः, लोकाझाश इत्यनुवर्तते सप्तम्यन्तम्, अर्थवशाच विभक्तेः परिणाम इति लोकाकाशस्यासङ्ख्येयभागादिष्वित्यभिसम्बन्धनीयम्, असङ्ख्येयश्चासौ भागश्च स _ आदिर्येषां तेऽसङ्ख्येयभागादयस्ते सङ्ख्येया एव भागाः, तत्र कदाजावानामवगाह चिदेकस्मिन् लोकाकाशप्रदेशासङ्ख्येयभागे कदाचिद् द्वयोरसख्येयभागयोः कदाचित् त्रिष्वित्यादि जीवानामवगाहो भवति // भा०-लोकाकाशप्रदेशानामसङ्ख्येयभागादिषु जीवानामवगाहो भवति, आ सर्वलोकादिति // 15 // ____ अत्राह-को हेतुरसङ्ख्येयभागादिषु जीवानामवगाहो भवतीति ? / अत्रोच्यते____टी०-लोकाकाशेत्यादि भाष्यम् / अमुना भाष्येणाधिकारानुवृत्तिं दर्शयति विभक्तिपरिणतिं च / लोकाकाशप्रदेशाः सर्व एवासङ्ख्येयास्ते पुनरसङ्ख्येयैर्भागैर्धिया विभज्यन्तेऽङ्गुलासङ्ख्येयभागप्रमाणैः, तत्रैकस्मिन्नसङ्ख्येयप्रदेशे वियत्खण्डे जघन्यत एकजीवस्यावगाहो भवति कार्मणशरीरानुविधायित्वात्, कश्चित् पुनस्तादृशं खण्डद्वयमाक्रम्य वर्तते, कश्चित् त्रीणि तादृशं, परश्चत्वारीत्यादि यावत् सकललोकाकाशमन्यो व्याप्यावतिष्टते,समुद्धातकाले केवल्येव, नापरः, लोकमर्यादया, न पुनरलोकाकाशस्यैकमपि देशमाक्रामतीति दर्शयति // 15 // अत्राहेत्यादि सम्बन्धग्रन्थः / एवं मन्यतेऽवतासङ्ख्येयप्रदेशपरिमाणस्य कार्मणशरीरापादितौदारिकादिशरीरसम्बन्धादल्पबहुप्रदेशव्यापितायां को हेतुरसङ्ख्येयभागादिष्वित्यादि। नहि तुल्यपरिमाणानां पटादीनामवगाहे वैषम्यं दृष्टम्, अस्यापि तुल्यप्रदेशत्वात् किमिति तथा नाभ्युपेयत इत्याक्षिप्ते, अत्रोच्यत इत्याह / अत्र प्रश्ने प्रतिविधीयते सूत्रम्--प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् // 5-16 // टी०-प्रदेशलक्षणमुक्तम्, एकस्यात्मनः प्रदेशा लोकाकाशप्रदेशराशिमानाः तेषां संहारः-सोचः विसर्गो-विकासस्ताभ्यां संहारविसर्गहेतुभ्यामेतदेवं वैषम्यं प्रदीपवत, यथा प्रदीपास्तेजोऽवयवा यथावकाशानुविधायिनः स्वल्पेऽवकाशे सङ्कोचमास्थायासते, महति . चोपने विकाशं भजन्ते, तथात्मनोऽपि प्रकर्षप्राप्तसङ्कोचस्यैकस्मिन्नसङ्ख्येय. आत्मप्रदेशानां , सङ्कोचविकासौ ना भागे लोकस्यावस्थानमुत्कृष्टविकाशप्राप्तस्य च केवलिनः सर्वलोकेऽवगाहो न्या मध्यमावस्थानेकभेदेति / एतदेव विस्तरेण दर्शयति भाष्यकार:भा०-जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव /