________________ सूत्र 15 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 333 ___ अथ पुद्गलानां कथमवगाहो लोकाकाश इत्युच्यते सूत्रम्-एकप्रदेशादिषु भाज्यः पुद्गलानाम् // 5-14 // टी--एकप्रदेशादिष्वित्यादि सूत्रम् / एकप्रदेशादिष्विति समानाधिकरणगर्भो बहुव्रीहिः, एकश्चासौ प्रदेशश्चेति, प्रदेश उक्तलक्षणः, एकप्रदेश आदिर्येषां तेष्वेकप्रदेशादिषु प्रदेशेषु पुद्गलानामणुप्रभृतीनामवगाहो व्याख्येयः। भा०-अप्रदेशसङ्ख्येयासङ्ख्येयानन्तप्रदेशानां पुद्गलानामेकादिष्वाका . शप्रदेशेषु भाज्योऽवगाहः / भाज्यो विभाष्यो विकल्प्य इत्यनपुद्गलाना थान्तरम् / तद्यथा-परमाणोरेकस्मिन्नेव प्रदशे, घणुकस्यैकस्मिन् - द्वयोश्च, व्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च, एवं चतुरणुकादीनां सङ्ख्येयासङख्येयप्रदेशस्यैकादिषु सङ्ख्येयेषु असङ्ख्येयेषु च, अनन्तप्रदेशस्य च॥१४॥ __टी०-अप्रदेशेत्यादि भाष्यम् / अविद्यमानद्रव्यान्तरप्रदेशः परमाणुरप्रदेशः, स्वयं च प्रदेशः,प्रचयविशेषात् सङ्ख्येयपरमाणुघटितः सङ्ख्येयप्रदेशः पुद्गलः, एवमसङ्ख्येयानन्तप्रदेशावपि स्कन्धौ पुद्गलाविति वाच्यौ, एकादिष्वाकाशप्रदेशेष्विति सूत्रावयवं स्पष्टतरेण वृत्तिवाक्येन व्याचष्टे-एक आदिर्येषामाकाशप्रदेशानां तेषु भाज्योऽवगाहः अप्रदेशादीनाम्, अनेकार्थत्वाद् धातूनां विभाष्यो विकल्प्य इत्याह, विशेषेणातिशयेन परमाणपक्रमेण भाषणीयो व्याख्येयः, विकल्पस्तु भेदसम्भवे, यथा घणुकस्यैकस्मिन् प्रदेशे द्वयोश्चेत्यादि भाष्य सुज्ञानमेव, परमाणोस्तु भेदाभावादेकस्मिन्नेव प्रदेशेऽवगाह इति विकल्पाभावः, कयं पुनरेकाकाशप्रदेशेऽत्यन्तसूक्ष्मेऽसङ्ख्येयादिप्रदेशाः स्कन्धाः प्रतिष्ठां प्रतिपद्यन्ते ? न हि घटे चतुरुदधिजलावस्थानमस्ति,अतिबहुत्वादल्पावकाशत्वाच्च घटस्येति / अत्रोच्यते-ननुप्रचयविशेपाद् दन्तिदन्तशकलमल्पप्रदेशावगाहि दृष्टम्,भेण्डखण्डं तु तावत्परिमाणमेव बहुतराकाशप्रदेशव्यापि दृष्टम्, अथ च बहुतरावयवता कुञ्जरदन्तशकले, तस्माद् परिणतिविशेष एवासौ तादृशः परमसुक्ष्मो येनानन्ता अपि परमाणवः स्कन्धीभूताः प्रदेशमेकमाश्रित्य विहायसो वर्तन्ते, यथा वाऽतिनिबिडेनायस्पिण्डेन व्याप्ते नभोदेशे निरन्तरे भस्त्रासमीरणसमीरिताः पुनर्विभावसोरवयवास्तत्रानुमज्जन्ति, विध्याप्यमाने च विगतरन्ध्रेष्यसि प्रतप्ते वारिलेशाः सूक्ष्मपरिणामवर्तिनो निर्लाहति प्रविशन्त्येवेत्येवमागोपालाङ्गनादिजनप्रतीतमाकाशस्य दुर्भरत्वमिति मा मुहः, सिकताकणनिकरेण वा परिपूरिते प्रस्थके प्रस्थ एवापरोपों विशन् दृष्टः, एकप्रदीपप्रभावितानकावभासिते च गर्भगृहकादौ प्रदीपसहस्रप्रभाजालाकारपरिणतपुद्गलानुप्रवेशः प्रत्यक्षप्रमाणसमधिगतस्तद्वदेवैकाकाशदेशे धनपरिणतिविशेषाभ्युपगमादनन्तपरमाणुघटनाविनिर्मितस्कन्धावस्थानमवसेयमिति // 14 // 1 'नन्तानां' इति क-ख-पाठः। 2 एकः संख्येयशब्दोऽधिकः ग-पाठः / 3 विकल्प्यस्तु' इति ग-पाठः / 4. रेकाकाश' इति ग-पाठः। 5' एवापरः पयसां प्राविशन्' इति ग-पाठः /