________________ 332 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः / भा०-अनादिरमध्योऽप्रदेशो हि परमाणुः // 11 // परमाणोः स्वरूपम् यस्मादादिमध्यान्त्यप्रदेशैः परिहीण एव परमाणुरिष्यते, अप्रदेशग्रहणादन्तपरिग्रहः, अथवाऽऽदिमध्यग्रहणादथेप्राप्तमेवान्त्यग्रहणम्, अस्मिन् पक्षे अप्रदेश इति प्रतिविशिष्टप्रदेशनिराकरणमेव कृतं भवति, आदिमध्यान्तप्रदेशैरप्रदेशोन रूपादिभिरिति न चादिमध्यान्तावयव निवन्धनं वस्तुत्वं प्रतीतम्, विनाऽपि तैर्विज्ञानाद्युपलब्धेः, अविभागत्वादेव च व्योमानुप्रवेशोऽपि प्रत्याख्यातः, न च सर्वगतत्वव्याघातो व्योम्नः, सकलवस्तुसमन्धित्वेनाभ्युपगम्यमानत्वात् प्रसिद्धविज्ञानक्षणवत्, अतः स्वयमेव प्रदेशोऽसौ,न तस्यापरे प्रदेशाः सन्ति द्रव्यस्वभावाः, सर्व च साधनं तनिराकरणेऽभिधीयमानमनुपासितयथार्थगुरुवचसा परेणैवमधिगतद्रव्यपर्यायनयद्वयसद्भावेन स्याद्वादिना विघटनीयमागमयुक्त्यनुसारिणेति॥११॥ ___ अथैतानि धर्माधर्मपुद्गलजीवद्रव्याणि किं व्योमवत् स्वात्मप्रतिष्ठान्याहोस्विजलादिवंदाधा रान्तरप्रतिष्ठानीति ? / उच्यते-निश्चयनयाभिप्रायात सर्वमेव वस्तु स्वात्मप्रतिष्ठं व्योमवत्, व्यहाराभिप्रायाद् धर्माधर्मपुद्गलजीवानाम् सूत्रम्-लोकाकाशेऽवगाहः॥ 5-12 // अवगाहविचारः भा०-अवगाहिनामवगाहो लोकाकाशे भवति // 12 // टी०-अवगाहिनाम्-अनुप्रवेशवतामवगाहः-प्रवेशः प्रतिष्ठा पुद्गलादीनां धर्माधर्मद्रव्ययावगाढे व्योग्नि भवति, धर्माधर्मयोश्वाकाशेवगाहोऽनादिकालीनः, परस्पराश्लेषपरिणत्या तथासन्निवेशात्, इतरत्राकाशेऽवगाहो नास्ति जीवादीनाम्, धर्माधर्माभावात्, गतिस्थित्युपरहकारित्वात् धर्माधर्मयोः, तावेव तत्र कमान स्तः ? न हि स्वभावे पर्यनुयोगोऽस्तीत्युपेक्ष्य लोकाकाशेऽवगाहो धर्मादीनामेतावदुक्तम्॥१२॥ ___ इदं त्वधुना वाच्यं किं सर्वात्मनाऽवगाहः सर्वलोकाकाशप्रदेशव्याप्त्या क्षीरोदकविषरुधिरादिवदुत पुरुषहदवदिति ? / एतद् विभज्योच्यते सूत्रम्--धर्माधर्मयोः कृत्स्ने // 5-13 // भा०-धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति / / 13 // टी.-सर्वत्र लोकाकाशे धर्माधर्मयोरयुतसिद्धावपि चन्द्रमण्डलाधेयचन्द्रिकावदवगाहो न परतः, चेतनावच्छरीर एवोपकारदर्शनाद् बहिरदर्शनाच्च तन्मात्रवर्तित्वमध्यवसीयते, अतः क्षीरोदकवदन्योन्यावगाहपरिणत्या व्यवस्थानं, न पुरुषहदवदिति व्यवच्छिनत्ति कृत्स्नशब्दोपादानादिति // 13 // १“धर्मादीनां' इति क-पाठः।