________________ 336 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 टी--धर्माधर्माकाशेत्यादि / धर्मादीनाममूर्तत्वात् परस्परेण वर्तनं न विरोधकारि, नापि पुद्गलविपया वृत्तिधर्मादीनां विरुद्धयते, तद्भलेन गतिस्थित्यवगाहदर्शनादात्मनश्च कर्मपुद्गलव्याप्तेः, सिद्धमिदं जीवो महान्तमणुं वा संहारविसर्गाभ्यां विग्रहं गृह्णाति // भा०-अत्राह-सति प्रदेशसंहारविसर्गसम्भवे कस्मादसङ्ख्ययभागादिषु जीवानामवगाहो भवति नैकप्रदेशादिष्विति ? / अत्रोच्यते टी-अबाहेत्यादि / इदभिदानी चोदयति-प्रदेशसंहरणसामर्थ्यमस्त्यात्मनः, तत् किमित्यविकलकारणकलापः सर्वान् प्रदेशानुपसंहृत्य एकस्मिन्नाकाशदेशे नावस्थानं कल्पयति प्रतिबन्धकवस्त्वभावात् ? कस्मादसङ्ख्येयभागादिष्ववगाह इष्यते, नैकप्रदेशादिष्विति निरुपपत्तिकमित्याशङ्कयते, अत्रोच्यत इत्याह, न वयमनुपपत्तिकमर्थं प्रतिजानीमहे, किन्तु / भा०-सयोगत्वात् संसारिणां, चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति // 16 // __टी-सयोगत्वात् संसारिणामित्यादि / योगाः प्रथिता एव औदारिकविग्रहाः, सत्यपि च सामान्योपादाने व्यापित्वात् कर्मिणयोग एव परिगृह्यते, सह योगेन सयोगःकार्मणशरीरीतियावत्, सर्वस्य संसारिणो भवितव्यमवश्यं कार्मणेन वपुषा, ततश्चानन्तानन्तपु. द्गलप्रचितसर्वसंसारिकार्मणशरीरोपश्लेषादसङ्ख्येयप्रदेशावगाहितैव नैकादिप्रदेशावेगाहितेति / चरमशरीर इत्यादि / चरमशरीरं त्रिभागहीनमवगाहन्ते सिद्धा इति च, अनेनैतद दर्शयति-देहे त्रैभागः शुषिरस्तत्पूरणात् त्रिभागहीनावगाहः, स च योगनिरोधकाल एव भवति,अतः सिद्धोऽपि तदवस्थप्रमाण एवेति सामर्थ्याभावान्नातः परमस्ति संहरणमनावरणवीर्यस्यापि भगवतः, किं पुनः शेषसंसारिणः ? स्वभावश्चायमेतावानेवोपसंहारः, न चास्ति स्वभावे पर्यनुयोगः / अपि च-सकर्मासौ, ततश्च नास्त्युपसंहृतिरल्पतरा / कर्मवियुक्तः कस्मानोपसंहरतीति चेत्, प्रयत्नाभावात्, प्रयत्नाभावश्च करणाभावात्, अनवद्यं दर्शनम् / इदमुक्तं भवति-सक्षिपतो विकसनसकोचनधमत्वादात्मप्रदेशसन्तानः पद्मनालतन्तुसन्तानवदविच्छेदेन विकासमासादयति,अविच्छेदश्च प्रदेशानाममूर्तत्वाद् विकासधर्मत्वादेकत्वपरिणतेः जीवाभिवृद्धेर्विकासश्च सिद्धः, छेददर्शनात् सक्रियत्वाचारविन्दनालतन्तुसन्तानवदेव च जीवप्रदेशाः सकलमितरद् विशन्त्यल्पमपहाय, छिन्ने तर्हि मूर्धन्यपविध्य शिरः किमिति स प्रदेशसन्तानस्तनुं नाविशतीति चेत्, असदेतत्, वेदनायुषोर्भेदात्, बहवो हि जीवदेशाः समुदायीभूयासते यत्र तदाचक्षते मर्म, बहुमर्मकश्य मूर्धा, महती च वेदना भवति मर्मदेशेषु, आयुर्भेदश्चाध्यवसानादिनिमित्तः सप्तधा प्रसिद्धः, १'प्रदेशेष्विति' इति क-ख-पाठः / 2 शरीरमात्रे व्यापनात् कार्मणावव्याप्तेः औदारिकादिविग्रहा इति योगव्याख्यायो शरीरमात्राख्यानम् / 3 औदारिकादिस्थूलशरीराणां कार्मणावगाहानुसारित्वात् कार्मणस्यैव प्रहः / 4 असंख्याकाशप्रदेशावगाढस्यैव कार्मणादेग्रहात् आरात् अयोगत्वाद् अग्रहः एकाकाशप्रदेशावबोधस्तु न केवलमन्तरम्।