________________ सूत्रं 17] स्वोपज्ञभाष्य-टीकालङ्कृतम् 337 तस्मात् संहारविसर्गावात्मनः कर्मानुभावजनिती, न च नाशः सत्यपि संहारे विकासे वाऽमूतत्वात्, न च स्वतत्त्वनाशोऽस्ति वस्तुनः कस्यचित् सर्वथा स्याद्वादिनं प्रति, प्रदेशसङ्ख्यायाधात्मनः सङ्कोचविकासयोः सतोरपि हासो वृद्धिर्वा न समस्ति, क्षेत्रतस्तु तावात्मनः स्यातामिति प्रतिपद्यध्वम् // 16 // भा०-अत्राह-उक्तं भवता ( अ०५, सू०१)-धर्मादीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्याम इति / तत् किमेषां लक्षणमिति ? / अत्रोच्यते ही-अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः / अस्यैवाध्यायस्य प्रथमसूत्रे ताँल्लक्षणतः परस्ताद् वक्ष्याम इत्युक्तं तदिदानीमवकाशप्राप्तमभिधीयते- . सूत्रम्-गतिस्थित्युपग्रही धर्माधर्मयोरुपकारः // 5-17 // _____टी-गतीत्यादि मूत्रम् / अथवा तुल्येऽसङ्ख्येयप्रदेशत्वे सति कृत्स्नलोकव्यापित्वमेव धर्माधर्मयोर्न पुनरसङ्ख्येयभागादिषु वृत्तिरित्येतत् कथमनपदिष्टहेतुकमवसातुं शक्यमित्यत्र नमो वयमवसीयतामसंशयम्, यस्मात् प्रयोगविस्रसापरिणामजनितामनेकप्रकारां सार्वलौकिकीमन्यद्रव्येष्वसम्भवन्तीमात्मपुद्गलानां क्रियामारभमाणानां चक्षुषो दर्शनशक्तरुपग्राहकादित्यादिरश्मिवद् गतिस्थित्योरुपग्राहको धमाधमोविति कायेतो निश्चीयते सकलजगद्व्यापिनाविति, तच्चासाधारणं कार्य सूत्रेण दर्शयति // भा०-गतिमतां गतेः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो पथासङ्ख्यम् / उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनान्तरम् / उपकारः प्रयोजनं गुणोऽथे इत्यनान्तरम् // 17 // ... टी०-गतियतामित्यादि भाष्यम् / देशान्तरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीतः परिणामः स्थितिः, तद्वन्तस्तादृशा परिणामेनाविष्टा इति, अत एवंविधक्रियापरिणतद्रव्यमेव गतिस्थितिशब्दाभ्यामुच्यते, तव्यतिरेकेण गतिस्थितिक्रियानुपलब्धेः, एकस्यैवोपग्रहद्वयनिवृ. स्यर्थ यथासङ्ख्यकमुपन्यस्यति गतिमतामित्यादिना भाष्येण / जीवपुद्गलाः क्रियावन्तो पत्र च गतिः तत्रावश्यंतया स्थित्याऽपि भवितव्यम् / अथवा धर्मद्रव्यस्य सनिहितत्वात् किमित्यव्याहता गतिरेव सततं न भवत्यविकलकारणकलापसनिधाववश्यंभाविनी कार्योत्पत्तिरेवं स्थितिरपि वाच्येत्याक्षिप्ते गतिमतामित्याह / स्वत एव गतिपरिणतिर्येषां द्रव्याणां स्थितिपरिणतिश्च तेषामुपग्राहको धर्माधर्मावपेक्षाकारणमाकाशकालादिवन्न निर्वर्तकं कारणम्, निर्वर्तक हि तदेव जीवद्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविष्टम्, धर्माधर्मों पुनरुपग्राहकावनुपघातकावनुग्राहकावित्यर्थः / स्वभावत एव हि गतिस्थितिपरिणतानि द्रव्याणि तावुपगृहीतः, 1 'वृद्धिर्न रामस्ति' इति क-ख-पाठः / 2 ०पग्रहो धर्माः' इति घ-पाठः / 3 निवर्तकं ' इति क-न-पाठः / 43