________________ 386 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 वा घटोपयुक्तस्यात्मनस्तदुपयोगविनाशे पटोपयोगोऽर्थान्तरभावगमनम्, अण्वादेश्च शुक्लवर्णविनाशे कृष्णतयोत्पादो विनाशः, तथाऽऽकाशादीनां पूर्वावगाहगतिस्थितिविनाशेऽवगाहान्तराऽर्थान्तरभावलक्षणो विनाशः, अत एव भावान्तरोत्पत्तितो न विगमो विगम एवैकान्तेन, नाप्युस्पद एवोत्पादः / इत्थमुत्पादविगमो तत्त्वेनानेकान्तात्मकेन निरूपितावन्वयांशापेक्षावेवात्मलाभं प्रतिपद्यते प्रायोगिकस्वाभाविको नान्यथेत्येवमुक्ते कश्चिन्मृपाभिमानी महानिबिडवृद्धबुद्धविप्रलब्धबुद्धिराचक्षीत-अस्तु स्वाभाविक एव विनाशो निर्हेतुकः, प्रायोगिकस्तु नोपपद्यते, विनाशहेत्वयोगात् , विनश्यतां हि घटादीनां विनाशस्य हेतुर्न युज्यते, यस्मात् स्वरूपत एव भावा नश्वराः स्वहेतुभ्यो यथास्वमुपजायमाना भङ्गुरप्रकृतय उपजननक्षणानन्तरकालानवस्थाना एव जायन्ते, नैषां स्वकारणसामग्रीतः प्रतिलब्धात्मनां सतां प्रकृतिभङ्गुरभावमपहायान्यस्मा न्मुद्रादेः कारणविशेषान्नाशस्य वस्तुन इवोत्पत्तिः, न चेदं स्वप्रक्रिया- ' निर्हेतुकनाशपक्षः प्रकाशमात्रम् , किं तर्हि ? उपपत्त्या निभाल्यते विनाशहेतुत्वेनाभिमतस्य नाशकरणं प्रति मुद्गरादेरसामर्थ्यम्, कथं पुनरसामर्थ्यमिति? उच्यते-विनाशकरणे हि विनाशस्य त्रयी गतिः-विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं वा, तत्राव्यतिरेकपक्षस्तावदतिस्थूल एव, नहि विनाशहेतुमेद्रादिः घटादिकं भावस्वभावमेव करोति, स्वकारणेभ्य एव कुलालादिभ्यस्तस्य प्रथममेव निवृत्तत्वात् निष्पन्नस्य चाकि श्चित्कार्यत्वात्, नापि स्वभावान्तरे कर्तव्ये तदवस्थस्य घटादेरविचलस्य विनशितुर्विकारोऽपि सम्भाव्यते, कुत एव तत्स्वभावप्रच्युतिः 1 तदवस्थश्च घटः पूर्ववदुपलभ्येत, अर्थक्रियां च जलहरणादिकां कुर्वीत // ननु चारित्याद् घटादेरर्थान्तरं कपालायेव विनाशस्तेन च विनाशहेतुनिष्पादितेन भावस्यावृत्तत्वान्न तथोपलब्ध्यादिप्रसङ्ग इति, उच्यते- न स्वभावान्तरं कपालादिकं विनाशहेतुना क्रियमाणमस्यानित्यस्य घटादेरावरणं युज्यते, कृतेऽपि तस्मिन् कपालादिके विनाशहेतुना घटे च तदवस्थ एव दृश्यात्मनि कुतस्त्य आवरणसम्भवः? न चैककदा युज्यते दर्शनादर्शने, विरुद्धत्वात् / नापि विनाशहेतुना तृतीयपक्षापतितो भावाभावः क्रियते, सत्र यद्येवं विकल्प्यते न विवक्षितो भावः अभाव इति ततोऽन्यः स्याद् भाव एव, एवं चाभावस्य विधिना पर्युदासरूपेण कार्यत्वाभ्युपगमे व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः सम्भाव्यते, यदि व्यतिरिक्तमन्यं भावं करोति ततस्तथोपलब्ध्यादिप्रसङ्गस्तदवस्थः, अथाव्यतिरिक्तं तमेव भावं करोतीति तदप्ययुक्तम्, तस्य प्रथमतरमेव स्वकरणैर्निवर्तितत्वात् // अथ क्रियाप्रतिषेधमात्रमालम्ब्यते, एवं सति अभावस्य भावप्रतिषेधरूपत्वेऽभ्युपेयमाने अभावं करोतीत्यसमर्थसमासेनोक्तं भावं न करोतीत्ययमर्थः सम्पद्येत, तथा च सति अकर्तुनाशहेत्वभिमतस्याहेतुत्वमकारकत्वमिति न विनाशहेतुर्नाम कश्चन सम्भवत्यन्यत्र विनष्टुस्तद्धर्मताया इत्युपसंहारः, वैयचिन . विनाशहेतुरस्ति, यस्य भावस्य विनाशाय विनाशहेतुः कल्प्यते स भावः स्वभावतो नश्वरः स्यान्न निभाज्यते ' इति क-ख-पा। २'लभ्यार्थकिया' इति 4.-ख-पाठः /