________________ 54 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 क्रियाया नाध्याहारः कर्तव्यः, ततश्च भवतीत्याह / एवं सम्बन्धं लगयित्वा सूत्रं व्याख्यानयमाह भा०-तद्यथा / निर्देशः / को जीवः / औपशमिकादिभावयुक्तो द्रव्यं जीवः // ___टी-तद्यथेत्यादि / यथैते भाव्यन्ते निर्देशादयः तथा कथ्यन्ते, निर्देश इति चोपन्यस्य उद्देशवाक्यमुच्चारयति-को जीव इति / न चाप्रस्तुतोपन्यासः, कथमिति चेत् ? उच्यते-उद्देशवाक्यमन्तरेण निर्देशस्य ख्यापनमशक्यं कर्तुम्, यदि हि पूर्व सामान्यरूपोहेशचोदना न स्यान्निर्देशवाक्यमप्यसम्बद्धत्वादुन्मत्तवचोवदसङ्गतार्थ स्यात्, सामान्यार्थाभिधानमुद्देशः, तद्विशेषप्रतिपिपादयिषया वचनं निर्देशः / पूर्व प्रश्नवाक्यमुच्चारयति-निर्दिश्यमानार्थोपकारि, कीदृशः खलु मया जीवः प्रतिपत्तव्यः ? किं द्रव्यरूपो गुणरूपः क्रियास्वभाव इति / नामादीनां वा अन्यतम इति पृष्टे निर्देश इति,-निश्चयेन उपयुज्यते प्रस्तुते वस्तुनि स निर्देशः। औपशमिकादिभावेत्यादि / औपशमिकादयोऽभिहितास्त एव भावास्तथाभवनादात्मनः तैर्युक्तः औपशमिकादिभावयुक्तः। द्रव्यं जीव इति, गुणक्रियाव्युदासद्वारेण निश्चयेन तदादिष्टं द्रव्यं जीव इति / द्रव्यं जीवः स चाप्यौपशमिकादिभावयुक्त इति / ततश्च न केवलं द्रव्यं नापि केवला भावाः किन्तु उभयात्मकं जीववस्तु प्रतिपत्रं भवति / अथवा द्रव्यमेव प्रेधानं यतस्तेन तेनौपशमिकादिभावेन द्रव्यमेव तथा तथा विपरिवर्तते 1 // स्वामित्वादयो जीवेsभ्युद्या अनया दिशेति न दर्शितवान्, वयं तु दर्शयामः-स्वामी-प्रभुः तद्भावः स्वामित्वं, जीवो हि कस्य प्रभुः ? जीवस्य वा के स्वामिनः ? इति, उच्यते-जीव एकोऽवधीकृतः धर्मादीनामस्तिकायानां स्वामी, यतः सर्वेषु मूछों यात्युपलभते परिभु क्ते शरीरतया वाऽऽदतेऽतः सर्वेषां जीवः स्वामी, जीवस्यापि जीवा अन्ये तन्मूर्छादिकारिणः स्वामिनो भवन्ति 2 // साध्यते येन तत् साधनम्, केन चात्मा साध्यते ? उच्यते-नान्येनासौ सततं समवस्थितत्वाद बाह्यान् वा पुद्गलान् अपेक्ष्य देवादिजीवः साध्यत इति तैस्तत्तत्स्थानं नीयत इति यावत् 3 // अधिकरणमाधारः, कस्मिन्नात्मा निश्चयस्य स्वात्मप्रतिष्ठत्वात् स्वात्मनि, व्यवहारस्य शरीराकाशादौ 4 // स्थितिरात्मरूपादनपगमः। कियन्तं कालमेष जीवभावेनावतिष्ठते / / भवाननङ्गीकृत्य सर्वस्मिन् काले, देवादींस्तु भवानङ्गीकृत्य यावती यत्र स्थितिस्तावन्तं कालं तत्रावतिष्ठत इति 5 // विधानं प्रकारः, कतिप्रकारा जीवाः 1 त्रसस्थावरादिभेदाः 6 // एवं शेषा अपि सिद्धान्तानुसारिण्या धियाऽवलोक्य पारमर्षे प्रवचनं वाच्याः, ग्रन्थगौरवभयात् तु नादद्रे भाष्यकारः / तथा यदर्थ शास्त्रप्रवृत्तिस्तत्रापि योजनां निर्देशादीनां कुर्वनाह मा०–सम्यग्दर्शनपरीक्षायाम् / किं सम्यग्दर्शनं द्रव्यम् ? / सम्यग्दंष्टिजीवोऽरूपी नोस्कन्धो नोग्रामः // 'गुण्यक्रिया' इति क-न-पाठः / 2 'प्राधान्यं' इति क-ख-पाठः / 3 कस्मिन् वा' इति स्व-पादः /