________________ सम्यक्त्वस्य सूत्र] स्वोपज्ञभाष्य टीकालङ्कृतम् टी-सम्यग्दर्शनपरीक्षायामित्यादि / यदा सम्यग्दर्शनं परीक्ष्यते तदापि सम्यग्दर्शनं किं गुणः क्रिया द्रव्यमिति पृष्टे निर्देशो भवति, निर्देश: * उच्यते-द्रव्यम् , ये जीवेन शुभाध्यवसायविशेषेण विशोध्य पुद्गलाः प्रतिसमयमुपभुज्यन्ते अतस्ते सम्यग्दर्शनस्य निमित्तम्, तदुपष्टम्भजन्यत्वात् श्रद्धानपरिणामस्य, ततश्च कारणे कार्योपचाराद् द्रव्यं सम्यग्दर्शनम् / मुख्यया तु वृत्या रुचिरात्मपरिणामो ज्ञानलक्षणः श्रद्धासंवेगादिरूपः सम्यग्दर्शनं तदप्या. 'मद्रव्यमेव द्रव्यनयस्य, पर्यायनयस्य तु गुणमात्रमवसेयमिति / यदि तर्हि पुद्गला द्रव्यखभावा रुचिमापादयन्तः सम्यग्दर्शनमिति भण्यन्ते, न तर्हि क्षीणदर्शनमोहनीयस्य छद्मस्थकेवलिसिद्धजीवस्य सम्यग्दर्शनं प्राप्नोतीत्युक्ते आह-सम्यग्दृष्टिजीव इति / सम्यक शोभना दृष्टिा सत्पदार्थावलोकिनी सा सम्यग्दृष्टिर्यस्य क्षीणदर्शनमोहनीयस्य स सम्यग्दृष्टिजीवः / एतत्कधयति, क्षीणे दर्शनमोहनीये नैवासौ सम्यग्दर्शनी भण्यते, कस्तर्हि ? सम्यग्दृष्टिरेवासौ भण्यते, वतः सिद्धसाध्यता, स पुनः क्षीणदर्शनमोहः किं रूपी ? नेत्याह-अरूपी / अविद्यमान रूपमस्येत्यरूपी, सर्वधर्मादिषु क्षेपः / नासौ.रूपादिधर्मसमन्वितः अमूर्त आत्मेति / छद्मस्थकेबलिनोर्यद्यपि कर्मपटलोपरागः :तथाप्यात्मा न खभावमुपजहाति, आगन्तुकं हि कर्मरजो मलिनयत्यात्मानमश्रादीव. चन्द्रमसम् / सिद्धः सर्वथाप्यरूप एव / सम्यग्दृष्टिरिदानीमाशइक्यते-किं स्कन्धो ग्राम इति, तनिरासायाह-नोस्कन्धः / अरूपत्वादेव न स्कन्धः, पुद्गलादिरूपस्वप्रदेशाङ्गीकरणात् स्यात् स्कन्धः, अथवा पञ्चास्तिकायसमुदितिः स्कन्धः, नो. शब्दस्य तद्देशवाचित्वान्नोस्कन्धः सम्यग्दृष्टिः / एवं नोग्रामोऽपि वक्तव्यः / एवं सम्यग्दर्शनिनः सम्यग्दर्शनकारणत्वात् पुद्गलानपादिक्षत् सम्यग्दर्शनं, तैर्वियुतः पुद्गलैः सम्यग्दृष्टिरिति॥ - भा०-स्वामित्वम् / कस्य सम्यग्दर्शनमिति ? एतदात्मसंयोगेन परसंपोगन उभयसंयोगेन चेति वाच्यम् / आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् / परसंयोगेन जीवस्याजीवस्य जीवयोरजीवयोर्जीवानामजीभारमपरोभयसंग भयसग वानामिति विकल्पाः / उभयसंयोगेन जीवस्य नोजीवस्य मेन सम्यक्त्व जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति, शेषाः सन्ति // टी–सम्प्रति स्वामित्वशब्दोच्चारणे स्वामित्वम् इत्यनेन कस्य स्वामिनः सम्यग्दनिमित्युद्देशवाक्यमेवं कृत्वा प्रवृत्तम् / किं यत् समवाय्येतत् तस्यैवैतत्, उत तदुत्पत्तिनिमित्तभूतखान्यस्यापि व्यवहारार्थमाश्रीयत इति / उच्यते-मुख्येन तावत् कल्पेन यद्यत्र समवेतं तत् तस्पैवेति, व्यवहारार्थ तु निमित्तभूतमप्याश्रीयते / एतदाह-आत्मसंयोगेनेत्यादि / आत्मसंयोगेनात्मसम्बन्धेन / यदा हि उत्पद्यमानस्य सम्यग्दर्शनस्य परतोऽपि निमित्तात् प्रतिमादि 'वियुतैः' इतिग-पाठः /