________________ सूत्रं . ] स्वोपझमाष्प-टीकालङ्कृतम् / वयमिजसव्वा" इत्यादि / उच्यते-प्रमाणनयानामयं भेदः, प्रमाण समस्तवस्तुखरूपपरिच्छेदात्मकं मत्यादि नयास्तु एकांशावलम्बिन इत्यतो मिन्नविषयता, प्रत्यक्षपरोक्षवत् / एतदुक्तं भवति-सर्वनयांशावलम्बि ज्ञानं प्रमाणम् , यत् तु ज्ञानमनेकधात्मकं सद्वस्तु एकधर्मावधारणेनावच्छिनत्येवमात्मकमेवैतदिति तन्नया इति कथ्यन्ते, अतश्च प्रमाणं सम्यग्ज्ञानं, नयास्तु मिथ्याज्ञानम्, यत आह-" एवं सब्वेवि नया मिच्छोदिही" इत्यादि / एवं च कृत्वा प्रमाणशब्दस्याभ्यर्हितत्वात् सूत्रे पूर्वनिपात इति न चोद्यावकाशः // अपरे वर्णयन्तिपरस्परापेक्षा नैगमादयो नया इति व्यपदिश्यन्ते अध्यवसायाः, तैः परस्परापेक्षैर्यज्ज्ञानं समस्तवस्तुस्वरूपावलम्बनं जन्यते तदनवगतवस्तुपरिच्छेदाभ्युपायत्वात् प्रमाणम् / ये पुननैंगमादयो निरपेक्षाः परस्परेण ते नयाभासा इति // 6 // किश्चान्यदित्यनेनोत्तरसूत्रं सम्बन्धयति, नैतावतैव विस्तराधिगमस्तत्त्वानां, यतोऽन्य(पि विस्तराधिगतौ कारणमस्ति, किं तत् ? निर्देशादि / के पुनः निर्देशादय इत्यत आह सूत्रम्-निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः // 1-7 // .टी.-निर्देशस्वामित्वेत्यादि। न तावनिर्देशादीन् व्याचष्टे सम्बन्धवाक्यमेव मर्थयते भा०–एभिश्च निर्देशादिभिः षइभिरनुयोगदारैः सर्वेषां भावानां जीवादीनां तत्त्वानां विकल्पशा विस्तरेणाधिगमो भवति // __टी-एभिश्चेत्यादिना। एभिः, चशब्दात् प्रमाणनयसदादिभिश्च / एभिश्चेति - सामान्यशब्दनिर्देशेन विशेषावगतिरस्ति, अतो विशेषार्थमाह-निर्देशा" दिभिः / आदिशब्देन निर्देशे सति नेयत्तापरिज्ञानमस्तीति समासे चाव्यक्ताभिधानं प्रसिद्धं न सूत्रादपीयत्ता सम्भाव्येत अतः षभिरिति / अस्मिन् किमेतानि व्याख्याद्वाराणि नेति या शङ्का तनिरसनायाह-अनुयोगदारैः, व्याख्याङ्गैरित्यर्थः / एषां च व्यापिता अस्ति नास्ति इत्याबहाव्युदासायाह-सर्वेषामिति / उक्तेऽपि चैतस्मिनभावोऽपि सर्वशब्देनोपात्तः तन्निराचिकीर्षयाऽऽह-भावानामिति / अभावे हि व्यर्थत्वात् प्रयासस्य न तद्विषयमेतदिति कथयति / मावा अप्यन्यमताभिमताः सन्त्यतत्त्वरूपा इत्यतो द्वयमुपादत्ते-जीवादीनां तत्त्वानामिखेतत् / ते च जीवादयः किमेभिः समासेन निरूप्यन्ते उत व्यासेनेत्यत आह-विकल्पश इति / शसच कारकसामान्याद् विधानमिति तृतीयार्थ एष इत्येतत् कथयति विस्तरेणेत्यनेन / इकेपि चैतस्मिन्नसम्पूर्णमेव वाक्यं स्याद् यदि पूर्वसूत्रादधिगम इत्येतन्नानुवर्तेत, अतोऽनुवसंत इति कथयति-अधिगम इति / सत्तां च पदार्थो न व्यभिचरति यद्यपि तथाप्यन्यस्याः निजकरकन्यतासत्याः' ( सम्मति-तर्के ) / 2 एवं सर्वेपि नया मिष्यादृष्टमः' ( सम्मति.)। व्याख्या