________________ क्वाधिगमसूत्रम् [अभ्यायः 1 मुपक्षिप्तानामित्यर्थः, अतः पूर्वमुघट्टितानांन्यस्तानां च इह प्रमाणनयैर्विस्तराधिगमो भवति। विस्तराधिगम इति / एकैकस्य तत उद्घटनादपकृष्टस्य विस्तरेण लक्षणविधानाख्येन वक्ष्यमाथेन (१-१०,१-३५)प्रमाणनयरूपेणाधिगमः-परिच्छेदो भवति। एतत् कथितं-यदा यदाधिगमस्तदा तदान प्रमाणनयान विरहय्येति / न चायं पर्यनुयोगः कार्यः-प्रमाणनयैः कथं भवत्यधिगम इति ? / यस्माज्ज्ञानविशेषाः प्रमाणनयाः, अतः प्रकाशस्वभावत्वात् प्रदीपवदधिगमशक्तिता। अथ कतिविधं प्रमाणमिति सङ्ख्यानियमाय प्रश्नयति / आह-तत्र प्रमाण द्विवि. घम्। तत्रंति सिद्धान्तं नन्दादिकं व्यपदिशति / प्रमाणमिति च प्रमीयतेऽनेन तत्त्वमिति प्रमाणम्, अस्मिन् पक्षे आत्मा सुखादिगुणकलापोपेतस्तेनावबुध्यते प्रमाण-द्रविध्यम् साधकतमेन मत्यादिना विषयमिति प्रतिपत्तव्यम् / यदा तु 'कृत्यल्युटो बहुलम्' (पाणिनिः अ० 3, पा० 3, सू० 113 ) इति कर्तरि प्रमाणमित्येतत् तदात्मनोऽविभक्तं मत्यादिज्ञानपञ्चकम् , प्रमिणोत्यवगच्छतीति प्रमाणम्, यदा त्वधिकरणे प्रमाणमित्येतत् तदा प्रमीयतेऽस्मिन् बहिरङ्गोऽर्थ इति प्रमाणम्, आत्मन्येव पहिरङ्गार्थप्रतिबिम्बनात्, नहि विषयाकारानारूषितं तज्ज्ञानं तस्य परिच्छेदे वर्तते, यदा तु तेन विषयाकारेण तज्ज्ञानं परिणतं भवति तदा तस्य वस्तुनः परिच्छेदोऽन्यथा नेति / द्विविधमित्यनेन सङ्ख्यानियम इति द्विविधमेव न पुनस्त्रिविधादि। कथं द्वविध्यमिति चेत् ? उच्यतेइहैवाध्याये प्रत्यक्षं परोक्षं चेति वक्ष्यते ( 1-11, 12 ) उपरिष्टात् / पराणि च निर्माणाङ्गोपाङ्गोदयनिवृत्युपकरणरूपाणीन्द्रियाणि 2-17 ). मनश्च मनोवर्गणापरिणतिरूपं द्रव्येन्द्रियं परं तेभ्यो य पजायते ज्ञानं तन्निमित्त तत् परोक्षमुच्यते धूमादग्निज्ञानवत्, प्रत्यक्षं पुनरश्नाति अश्नुते वा_नित्यक्षः-आत्मा तस्याक्षस्येन्द्रियमनांस्यनपेक्ष्य यत् स्वत एवोपजायते तत् प्रत्यक्षम् / यदि तर्हि नन्द्यां द्विविधमुपदिष्टं कथमनुयोगद्वारग्रन्थे चतुर्विधमुपन्यस्तम् ? / यतः केचिन् नैगमादयो नयाः / चतुर्विधमित्येक नयवादान्तरेण / एके सूरयश्चतुर्विधं प्रमाणमुपदिशन्ति नयभेदेन प्रत्यक्षानुमानोपमानागमाख्यम्, एतच्च यथा दुःस्थित चातुर्विध्यं तथा भाष्यकार एवोत्तरत्र दर्शयिष्यति (1-12) / एवं प्रमाणावयवं निर्भिद्य व्युत्पत्यादिद्वारेण नयावयवं विभजन्नाह-नयाश्चेत्यादि / नयन्तीति नयाः कारकाः व्यजका इति यतः सूत्रार्थ (यतस्तवार्थे ) दर्शयिष्यति भाष्यकारः, ये ह्यनेकधर्मात्मकं वस्त्वेकेन धर्मेण निरूपयन्ति एतावदेवेदं नित्यमनित्यं वेत्यादिविकल्पयुक्तं ते नया नैगमायो वक्ष्यन्ते (1-34) // ननु च प्रमाणमपि सामान्यविशेषात्मकवस्तुपरिच्छेद्येव, नया अपि चैवंविधविषयोपनिपातिन एवेति नास्ति कश्चिद विशेषः, ज्ञानात्मप्रमाणनान ____कत्वाद्धि नया न भेदेनोपादेयाः प्रमाणादिति, असत्या एव भिन्नता __नया इति [ चेदनो ] हेयतया न्याय्यमुपादानमित्येतदपि न, यतो वक्ष्यति-" न विप्रतिपत्तयोर्थाध्यवसाया" इति [1-35 ], तथा " नियय 1 'भपरिणतं' इति ख-टी-पाठः / 2 'मुशन्ति' इति ग-पाठः / 'कार्थ' इति कथ' इति वा ग-टीपाठः। 4 'परिच्छेदे च, 'परिच्छेदे व 'इति क-ख-पाठौ / 5 'सायात्' इति क-ख-पाठः।।