________________ सूत्र 6] स्वोपज्ञभाष्य-टीकालङ्कृतम् प्राप्त्यभिधायित्वे सत्ययमों भव्यशब्दस्य, कर्मसाधनपक्षे प्राप्यन्ते स्वधर्मे यानि तानि मव्यान्युच्यन्ते, करीसाधनपक्षे तु प्राप्नुवन्ति तान्येव धर्मादीनीति भव्यानि द्रव्याण्युच्यन्ते इति / एतदाह-प्राप्यन्ते प्राप्नुवन्तीति वा द्रव्याणि / सम्प्रति जीवादीनां न्यासं प्रदर्श्य तेषां च पर्यायस्य द्रव्यशब्दस्य अन्येषामप्येवमेव कार्य इत्यतिदिशन्नाह-एवं सर्वेषामित्यादि / एवं यथा जीवादीनां द्रव्यशब्दस्य च तथा सर्वेषां गुणक्रियादिशब्दानाम्, अनादीनां इति भन्याभव्यादीनाम्, आदिमतां च मनुष्यादीनां पर्यायाणां, जीवादीनां भावानां जीवादिभ्योऽनन्यवृत्तीनाम्, तत्त्वाधिगमार्थमिति तत्त्वस्य -परमार्थस्य भावस्य अधिगमः स सर्वत्र, न तु नामस्थापनाद्रव्याणामिति, हेयत्वादेषां, तत्त्वाधिगमप्रयोजनं न्यासो निक्षेपो रचना कार्या बुद्धिमता मुमुक्षुणेति // 5 // शिष्य आह-कथं भगवता तत्त्वानां जीवादीनामधिगमः कृतः। यदि च केनाप्युपायेनाधिगतानि भवन्ति ततो युक्तं कथनमन्यसायेतानि तत्वानीति ? उच्यते सूत्रम्-प्रमाणनयैरधिगमः // 1.6 // टी०-प्रमाणनयैरिति च करणे तृतीया न कर्तरि, यतस्तत्र षष्ठया भवितव्यम् 'कर्तृकर्मणोः कृती' (पाणिनिः अ० 2, पा० 3, सू० 65) इति / प्रमाणे प्रत्यक्षपरोक्षे द्वे, अवधिमनःपर्यायकेवलानि मतिश्रुते च, नैगमादयो नयाः पञ्च, प्रमाणे च नयाच प्रमाणनयास्तैः प्रमाणनयैः साधकतमैः / भा०-एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभियंस्तानां प्रमाणनयर्विस्तराधिगमो भवति / तत्र प्रमाणं द्विविधं-प्रत्यक्षं परोक्षं च वक्ष्यते (1-10,12) / चतुर्विधमित्येके नयवादान्तरेण / नयाा नैगमायो वक्ष्यन्ते (1-34 ) // किश्चान्यत् // 6 // टी-एषां चेत्यादि / एषाम् इति भवतः प्रकटीकृतानाम्, चशब्द एवकारार्थे, ___एषामेवान्यस्याभावात्, अथवा समुच्चये, एषां जीवादीनां, चअधिगम-साधनम् शब्दानामादीनां च, तत्त्वानामिति चानेनोभयं सम्बध्यते, जीवा दीनां तत्वानां नामादीनां च तत्त्वानाम् / यथाद्दिष्टानामिति / यथा परिपाट्या जीवाजीवादिकया सामान्येनाभिहितानामुद्दिष्टानामिति / सामान्येन च जीवाजीवास्रव (1-4 ) इत्यस्मिन् सूत्रेऽभिधाय पुनर्नामस्थापनादिसूत्रे नामादिभिर्भेदै यस्तानां, किमर्थं पुनर्जीवाजीवास्रवादिसूत्रे उद्घाट्य ततो नामादिमुत्रे न्यस्तानि ? / उच्यतेपरिज्ञानार्थमनेको जीवशब्दवाच्योऽर्थ इत्यस्य / एतदेवाह-न्यस्तानामिति / अधिगमोपायार्थ १'मन्यस्यायत्तानि ' इति ख-पाठः / 2 'यथोपदिष्टानां' इति ख-घ-टी-पाठः। 3 'न्यस्तानामित्यधिगमोपायार्थमुपक्षिप्तानामित्यर्थः' इति ख-घ-टी-पाठः। 4 'नयाश्च पञ्च' इति ख-घ-टी-पाठः /