________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 तदाह-केचिदप्याहुः इत्यादि / केचित् पुनर्बुवते यदित्यणुकांदि द्रव्यतो द्रव्यं इति, तृतीयार्थे पञ्चम्यर्थे वा तसिरुत्पाद्यः, द्रव्यैः सम्भूय यत् क्रियते, यथा बहुभिः परमाणुभिः सम्भूय स्कन्धस्त्रिप्रदेशिकादिरारभ्यते तद् द्रव्यद्रव्यम् / अथवा यद् द्रव्यात् तसादेव स्कन्धात् त्रिप्रदेशिकादेर्यदैकः परमाणुः पृथग्भूतो भवति तदा तसाद् भिद्यमानात त्रिप्रदेशिकाद स्कन्धात् परमाणुश्च निष्पद्यते द्विप्रदेशिकश्च स्कन्ध इति, स परमाणुरपि द्रव्यद्रव्यं द्विप्रदेशिकोऽपि द्रव्यद्रव्यं भवतीति / तचैतद् द्रव्यद्रव्यं पुद्गलमेव भवतीति प्रत्येतव्यम् / नहि जीवादिद्रव्यमन्यैः सम्भूयारभ्यते, न चान्यस्मात् भिद्यमानात् तन्निष्पद्यत इति, परमाणवस्तु सम्भूयान्यदारभन्ते ततश्च निष्पद्यन्त इति, यतः पञ्चमेऽध्यायेऽभिधास्यते अणवः स्कन्धाः (5-25) इत्यादि, अणवः-परमाणवः, स्कन्धाः-द्विप्रदेशिकादयः, सङ्घातात् स्कन्धा भेदादणवो निष्पद्यन्त इति // भावद्रव्यमिति चैक विन्यस्य भावतो द्रव्याणि बहून्युपक्षिपतोऽयमभिप्रायः,-अन्याभिमतं यदेकं विश्वस्य जगतः कारणं ब्रह्मादि तदपास्यते, बहून्येतानि स्वत एव सत्तां दधतीति प्रतिपादयति, कानि च तानि ? धर्मादीनि पञ्च, सगुणपोयाणि इति, गत्याद्यगुरुलघुप्रभृतिपर्यायभाञ्जीति, एतत् स्याद् यद्येन धर्मेण समन्वितं तं धर्म न कदाचित् तद् जहाति तेन सदान्वितमास्ते द्रव्याणां प्राप्ति . इति, एतच्च न, प्राप्तिलक्षणानि-परिणामलक्षणानीतियावत् , रक्षणता अन्यानन्यांश्च धर्मान् प्रतिपद्यन्त. इति, जीवास्तावद् देवमनुजादीन पुद्गलाः कृष्णादीन् धर्मादयः पुनस्त्रयः परतोऽन्यानन्यांश्च प्राप्नुवन्ति, यतोऽन्यस्मिन् गच्छति तिष्ठति अवगाहमाने वा जीवे पुद्गले वा गमनादिपरिणामस्तेषामुपचर्यते, अतो हि प्राप्तिलक्षणानि वक्ष्यन्ते / अथवा भावद्रव्यमिति, द्रव्यार्थ उपयुक्तो जीवो भावद्रव्यमुच्यते, एतद वा कथयत्यनेन भाष्येण आगमतश्चेत्यादिना, अथवा प्राप्तिलक्षणानीति यदुक्तं सा न स्वमनीपिका, यत आगमे आप्त एवमुपदिदेश-प्राप्तिलक्षणान्येतानि, कथमिति चेत् ? तदाह-आगमतश्चेत्यादि / तसिः सप्तम्यर्थे, आगमत आगमे, पूर्वाख्ये कथ्यमाने, प्राभृतज्ञ इति, शब्दप्राभृतं, तच्च पूर्वेऽस्ति, यत इदं व्याकरणमायातं, ततः शब्दप्राभृतं यो जानाति स प्राभृतज्ञो गुरुरेवं ब्रवीति द्रव्यमिति / अस्यार्थ तीर्थकृत् किमाहेति चेत्, तदुच्यते-भव्यमाह / भव्यमिति च न ज्ञायते तत् स्पष्टयति-द्रव्यं च भव्य इति / अस्यायमर्थः-द्रव्यमिति निपात्यते भव्यं चेद भवति / भव्यमिति सन्देहास्पदमेव केषाश्चिदिति स्पष्टयति-प्राप्यमाह / प्राप्तव्यं तैः खगतैः परिणतिविशेषैर्गत्यादिभिः व्याप्यत इत्यर्थः / अतो न स्वमनीषिका प्राप्तिलक्षणानीत्येषाम् // ननु चायं भवतिरकर्मकः सत्ताभिधायी कथं प्राप्यमित्यनेन कर्माभिधायिना कृत्येन भव्यमित्यस्यार्थो वित्रियते / / उच्यते-नैवायं सत्ताभिधायकः, तर्हि 1 प्राप्त्यभिधायी चुरादावात्मनेपदी, भू प्राप्तावात्मनेपदी / तदाह प्राप्त्यभिधायिना कथ्यते तेन, तदेवं इति 1 'यद् द्यणुकादि' इति ग-पाठः। 2 'कादेर्युक्तः' इति ग-पाठः / 3 'कानिचित् तानि ' इति क-बपाठः / 4 'कदाचिद् न जहाति' इति क-ख-पाठः /