________________ सूत्र 5] स्वोपज्ञभाष्य-टीकालङ्कृतम् प्पादयः / मुक्तास्तु ज्ञानावरणादिकर्मभिः समस्तैर्मुक्ता एकसमयसिद्धादयः / पशब्दाद सप्रमेदा द्विधा वक्ष्यन्ते द्वितीयेऽध्याये (2-10) // एवं जीवपदार्थे नामादिन्यासमुपदर्य एकत्र दर्शितोऽन्यत्र सुज्ञान एव भवतीत्यतिदिशति-एवमजीवादिष्वित्यादि / अजीवादिषु इति चोक्तेऽपि पुनः सर्वेषु इत्यमिदघद् व्याप्ति नामादिन्यासस्य दर्शयति, अनुगन्तव्यं नामादिचतुष्टयं दर्शनीयमित्यर्थः / अजीव इति नाम यस्य चेतनस्याचेतनस्य वा क्रियते स नामाजीवः / स्थापनाजीवः काष्ठादिन्यस्तः / द्रव्याजीवो गुणादिवियुतो बुद्धिस्थापितः / भावाजीवो धर्मादिर्गत्याधुपग्रहकारीति / नामात्रवो यस्यास्रव इति नाम कृतं स नामास्त्रवः / स्थापनास्रवः काष्ठादिरचितः। द्रव्यास्रवस्तु आत्मसमवेताः पुद्गलाः अनुदिता रागादिपरिणामेन / भावास्रवास्तु त एवोदिताः। द्रव्यवन्धो निगडादिः, भावबन्धः प्रकृत्यादिः। द्रव्यसंवरोपिधानं, भावसंवरो गुप्त्यादिपरिणामापनो जीवः / द्रव्यनिर्जरा मोक्षाधिकारशून्या ब्रीह्यादीनां, भावनिर्जरा कर्मपरिशाटः सम्यग्ज्ञानाद्युपदेशानुष्ठानपूर्वकः / द्रव्यमोक्षो निगडादिविप्रयोगः, भावमोक्षः समस्तकर्मक्षयलाञ्छनः। तथा द्रव्यसम्यग्दर्शनं ये मिथ्यादर्शनपुद्गला भव्यस्य सम्यग्दर्शनतया शुद्धिं प्रतिपत्स्यन्ते तद् द्रव्यसम्यग्दर्शनं, एत एव विशुद्धा आत्मपरिणामापन्ना भावसम्यग्दर्शनं / तथा द्रव्यज्ञानमनुपयुक्ततावस्था, भावज्ञानमुपयोगपरिणतिविशेषावस्था / द्रव्यचारित्रमभव्यस्य भव्यस्य वाऽनुपयुक्तस्य, उपयुक्तस्य क्रियानुष्ठानमागमपूर्वकं भावचारित्रमिति // येऽपि येषां जीवादीनां सामान्यशब्दास्तेष्वप्यस्य नामादिचतुष्टयस्यावतार इति कथयमाह-पर्यायान्तरेणापीत्यादि / प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायाः, पर्यायादन्यः पर्यायः पर्यायान्तरं, तेनाप्यस्य चतुष्टयस्य न्यासः कार्यः, तदाहमामव्यादि- नामद्रव्यं इत्यादि / एतद् भाष्यं नामादिजीवव्याख्यानेन भावितमेव यावत् केचिदप्याहुरिति / तथाप्यशून्यार्थमुच्यते-नामद्रव्यं यस्य चेतनावतोऽचेतनस्य वा द्रव्यमिति नाम क्रियते, यत् पुनः स्थाप्यते काष्ठादिषु तत् स्थापनाद्रव्यं विशिष्टाकारमिति / द्रव्यद्रव्यमिति उभाभ्यां द्रव्यशब्दोभ्यां गुणादिभ्यो निष्कृष्य द्रव्यमात्र स्थाप्यते / एतदेवाह-गुणपर्यायवियुक्तं इत्यादिना, तैर्विरहितं, न च परमार्थतः शक्यन्ते तेऽपनेतुं, तत्स्वभावत्वाद, अतः प्रज्ञास्थापितमित्याह / तच्चान्यस्याभावात् षष्ठस्य प्रसिद्धमेव तदेव कथयति-धर्मादीनामन्यतमत् इति / यद्यदेव विवक्षितुं इष्यते तत् तदेषां मध्ये ग्राह्यं नात्र नियम इत्येतत् कथयति-शून्योऽयं विकल्प इति। पूर्ववत् प्रयोगतो भावना कार्या, एष तावत् तृतीयविकल्पे ग्रन्थकाराभिप्रायः / अपरे तु कथयन्ति विकल्पं तृतीयमन्यथा, 1 शुभाशुभात्मपरिणामकारणभूतपुद्गलापेक्षया / 2 सकामनिर्जरामपेक्ष्य / 3 स्वरूपावस्थानस्य तत्त्वात् निश्शेष. मक्षयस्य तु तपःसंयमद्वारत्वात् / 4 द्रव्यशब्दद्वयेनेत्यर्थः / Ich