________________ 121 सूत्र 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् नयतेरन्तरतापि शक्या कल्पयितुमित्येतद् दर्शयति-कुर्वन्ति तद् तद् विज्ञानमात्मन इति कारकाः, अपूर्व प्रादुर्भावयन्ति विज्ञानमितियावत् / तथा सिद्धिवचनोपायं साधयन्ति शोभनामन्योन्यव्यावृत्त्यात्मिकां विज्ञप्ति जनयन्त्यतः साधकाः / तथा वर्तमानार्थोऽपि निर्वर्तका इति निश्चितेन स्वेनाभिप्रायेणोत्पन्नाः तेऽध्यवसायविशेपा नाशमनासादयन्तो निर्वतका इति / तथा दीप्त्यर्थोऽप्ययम् / निर्भासकाः वस्त्वंशज्ञापनपरत्वात् / तथोपलब्ध्यर्थताऽप्यस्य उपलम्भका इति दर्शयत्यनेन, प्रतिविशिष्टक्षयोपशमापेक्षत्वात् तांस्तानर्थविशेषानत्यन्तसूक्ष्मानवगाहमानाः उपलम्भका इति / व्यञ्जनार्थोऽप्ययं व्यञ्जका इत्यनेन कथयति, व्यञ्जयन्तिस्पष्टयन्ति-स्फुटीकुर्वन्ति स्वाभिप्रायेण वस्तु, यथाऽऽत्मस्वभावे स्थापयन्तीत्यर्थः / एवमेते किश्चिद् भेदं प्रतिपन्ना अपि शब्दा भाष्यकारेणानन्तरमिति व्यपदिष्टा इत्यनर्थान्तरमिति // सकर्मकाणां प्राप्येण कर्मणा भवितव्यमिति दर्शयति भा०-जीवादीनू पदार्थान् नयन्ति प्राप्नुवन्ति कारयन्ति साधयन्ति निर्वतयन्ति निर्भासयन्ति उपलम्भयन्ति व्यञ्जयन्तीति नयाः // टी०-जीवादीन् पदार्थान् नयन्तीत्यादि / अत्र च णीजः प्रयोगो नयतेरर्थ इति जीवादीन शास्त्रप्रतिपाद्यान् सप्त पदार्थानित्यनेन वाच्यान् व्यपदिशति, न गम्यान् , तान् नयन्ति इति नयाः। नयन्तीत्यादिना च यः कर्ता दर्शितस्तमेवानन्यं क्रियातो दर्शयति, यतो नयाः नयन्त इत्यनेन कर्तुः प्राधान्यं क्रियायां गुणभाव इति कैश्चित् प्रतिपन्नं क्रियायाः प्राधान्यं कतुगुणभाव इति, इह तथा नात्यन्तिकः कतक्रिययोमैदोस्तीति, यतः स एव पदार्थः कर्तेत्येव व्यपदिश्यते स्वतन्त्रत्वात् , तथा स एव च साध्यात्मना वर्तमानः क्रियेत्याख्यायते, अतः कक्रिययोरनेनात्यन्तिकं भेदं निरस्यति-नयन्ति इत्यादिना // * नयशब्दार्थे निरूपिते चोदकोऽचूचुदत्भा०-अत्राह-किमेते तन्त्रान्तरीया वादिन आहोस्विद् स्वतन्त्रा एव चोदकपक्षग्राहिणो मतिभेदेन विप्रधाविता इति / अन्नोच्यते सा. नैते तन्त्रान्तरीयाः, नापि स्वतन्त्राः मतिभेदेन विप्रधाविताः / नान्तरता ज्ञेयस्य त्वर्थस्याध्यवसायान्तराण्येतानि / टी-य एते नैगमादयो वस्त्वंशपरिच्छेदव्यापृता नयाः किमेते तत्रान्तरीया इत्यादि, तन्यन्ते-विस्तार्यन्तेऽस्मिन्ननेन वा जीवादयः पदार्थाः तन्त्रं-जैनप्रवचनं तस्मादन्यत् काणभुजादिशास्त्रं तन्त्रान्तरं तस्मिन् भवाः कुशला वा तन्त्रान्तरीयाः / गहादित्वाच्छः / स्वशास्त्रसिद्धानानवश्यं वदन्तीति वादिनः, तत् किं वैशेपिसादयो वादिनो नया भण्यन्ते ? आहोस्वित् अथवेत्यस्य पक्षान्तरसूचकस्य निपातस्यार्थ प्रयुक्तः। स्वतन्त्रा एवेति / स्व-आत्मीयं तन्त्र-शास्त्रं येषां ते स्वतन्त्राः, स्वप्रधानाः जिनवचनमेव 1' तानासादयन्तो ' इति क-ख-पाठः / नयानामध्यवसा