________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 मा०-तद् द्विविधमङ्गबाह्यमङ्गप्रविष्टं च / तत् पुनरनेकविधं द्वादशविधं च यथासङ्ख्यम् / अङ्गयाह्यमनेकविधम् / तद्यथा-सामायिकं, श्रुतशानस्य भेद-. 5 चतुर्विशतिस्तवः, वन्दनं, प्रतिक्रमणं, कायव्युत्सर्गः, प्रत्याप्ररूपणा ख्यानं, दशवैकालिकं, उत्तराध्यायाः, दशाः, कल्पव्यवहारी, निशीथमृषिभाषितानीत्येवमादि // टी.-तद् द्विविधमित्यादिना / द्वौ चानेकश्च द्वादश च द्वथनेकद्वादश ते भेदा यस्य तद् द्वयनेकद्वादशभेदम् , तच्छ्रतं द्विविधमिति, परोपाधिकं द्विविधत्वमिति वक्ष्यति / अङ्गमाद्यामिति / अङ्गानि-अवयवा आचारादयस्तेभ्यो बाह्यमिति अङ्गबाह्यम् , अङ्गेष्वाचारादिषु प्रविष्टम्-अन्तर्गतम् अङ्गप्रविष्टम्, अङ्गबाह्यमङ्गप्रविष्टम् च पुनरनेन भेदेन भेद्यम्अनेकविधम्-अनेकप्रकारम् , अङ्गबाह्य, द्वादशविधं-द्वादशभेदम् अङ्गप्रविष्टमेवं यथासङ्ख्यं यथोपन्यस्तमितियावत् / अङ्गबाह्यमनेकविध सामायिकादि / समभावो अगबाह्यादीनां यत्राध्ययने वर्ण्यते तत्तेन वर्ण्यमानेनार्थेन निर्दिशति-सामायिकमिति / सामायिकादीनां व्याख्या गाना एवं सर्वेषु वक्ष्यमाणेष्वर्थसम्बन्धाद् व्यपदेशो दृश्यः / चतुर्विंशतीनां ___ पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां वर्ण्यते स चतुर्विंशतिस्तव इति / वन्दनम्-प्रणामः स कस्मै कार्यः कस्मै च नेति यत्र वर्ण्यते तत् वन्दनम् / असंयमस्थानं प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्तनं यत्र वयेते तत् प्रतिक्रमणम् / कृतस्य पापस्य यत्र कायपरित्यागेन क्रियमाणेन विशुद्धिराख्यायते स कायव्युस्सगे। प्रत्याख्यानं यत्र मूलगुणा उत्तरगुणाश्च धारणीया इत्ययमर्थः ख्याप्यते तत् प्रत्याख्यानम्। दशविकाले पुत्रहिताय स्थापितान्यध्ययनानि दशवैकालिकम् / आचारात् परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेन उत्तराध्ययनानि / पूर्वेभ्य आनीय सङ्घसन्ततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते। दशा इति व्यवस्थावचनः शब्दः, काचित प्रतिविशिष्टावस्था यतीनां यासु वयेते ता दशा इति / कल्पव्यवहारौ कल्प्यन्ते-भिद्यन्ते मूलादिगुणा यत्र स कल्पः, व्यवहियते प्रायश्चित्ताभवद्व्यवहारतयेति व्यवहारः। निशीथम् अप्रकाशं सूत्रार्थाभ्यां, यद् ऋषिभिर्भाषितानि प्रत्येकयुद्धादिभिः कापिलीयादीनि, एवमादि सर्वमङ्गबाह्यं दृश्यम् // भा०-अङ्गप्रविष्टं द्वादशविधम् / तद्यथा-आचारः, सूत्रकृत, स्थानं, समवायः, व्याख्यामज्ञप्तिः, ज्ञातधर्मकथाः, उपासकाध्ययनदशाः, अन्तकृशाः, अनुत्तरोपपातिकदशाः, प्रश्नव्याकरणं, विपाकसूत्रं, दृष्टिपात इति // अत्राहमतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति / अत्रोच्यते