________________ सूत्रे 20 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-अङ्गप्रविष्टं द्वादशविधं भण्यते / तद्यथा, आचारो ज्ञानादिर्यत्र कथ्यते स . आचारः / सूत्रीकृता अज्ञानिकादयो यत्र वादिनस्तत् सूत्रकृतम् / अङ्गप्रविष्टानां ना यत्रैकादीनि पर्यायान्तराणि वर्ण्यन्ते तत् स्थानम् / सम्यगवायनं वर्षधरआचारादीनां PM नद्यादिपर्वतानां यत्र स समवायः। व्याख्यायन्ते जीवादिगतयो यत्र नयद्वारेण प्ररूपणाः क्रियन्ते सा व्याख्याप्रज्ञप्तिः / ज्ञाता-दृष्टान्तास्तानुपादाय धर्मो यत्र कथ्यते ताः ज्ञातधर्मकथाः / उपासकैः-श्रावके रेवं स्थातव्यमिति येष्वध्ययनेषु दशसु वर्ण्यते ता उपासकदशाः / अन्तकृतः-सिद्धास्ते यत्र ख्यायन्ते वर्धमानस्वामिनस्तीर्थ एतावन्त इत्येवं सर्वकृतान्ताः अन्तकृद्दशाः / अनुत्तरोपपादिका देवा येषु ख्याप्यन्तै ताः अनुत्तरोपपादिकदशाः / प्रनितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् प्रश्नव्याकरणम् / विपाकः-कर्मणामनुभवस्तं सूत्रयति-दर्शयति तद् विपाकसूत्रम् / दृष्टीनाम् अज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तासां वा तत्र पातः / अत्रावसरे चोदक आह-उक्तं लक्षणं विधानं च श्रुतस्य, किन्तु यथाऽयं विपयं निरूपयिष्यते तथा न कश्चिद् भेदोऽस्तीति पृच्छति मतिश्रुतयोः को भेद इति ? / भण्यते भा०–उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम्, श्रुतज्ञानं तु . त्रिकालविषयम, उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति // अत्राहमतिश्रुतयोः ___ गृह्णीमो मतिश्रुतयोर्नानात्वम् // अथ श्रुतज्ञानस्य द्विविधमनेक प्रतिविशेषः - द्वादशविधमिति किंकृतः प्रतिविशेष इति ? / अत्रोच्यतेटी- उत्पन्नेत्यादिना / उत्पन्नः--स्वेन रूपेण जातः स्पर्शादिरों घटादिगतः, स चोत्पन्नो यदि तेन रूपेण सन्तिष्ठते न तु कपालाद्यवस्था प्राप्तस्तदा स्पर्शनमतिज्ञानमेवं परिच्छिनत्ति--घटस्यायं स्पर्श इति, स चाप्युत्पन्नाविनष्टो यदि योग्यदेशस्थो भवति तदा परिच्छिनत्ति, न तु विप्रकृष्टदेशस्थमित्येतदाह-साम्प्रतकालविषयमिति / अनेन वर्तमानकालविषयता मतिज्ञानस्यावेदयते / श्रुतज्ञानं तु, तुशब्दः भेदप्रदर्शनपर इति / तं भेदमाहत्रिकालविषयम् / पुनश्चेदमैदम्पर्य व्याख्यानयति-उत्पन्नेत्यादिना / उत्पन्नो--वर्तमानस्तमपि नोइन्द्रियं मनआख्य परिचिन्तयति-कीदृशोऽयं कर्करस्पर्श इति, विनष्टमप्यन्यत्र लग्नं शर्करास्पर्शमतीतं चिन्तयति-अस्याः प्राक शर्करायाः मया स्पर्शोऽनुभूत इति / अनुत्पन्नम्आगामिनमेवंविध एषां क्षीरगुडादीनां प्रतिविशिष्टात् संस्कारात् स्पर्श उपयास्यतीति, अत उत्पन्नादिग्राहकम् / पुनश्चोदयति-अवगतो विशेष एतयोः, अथ श्रुतज्ञानस्य द्विविधादिभेदः किंकृत इति ? सर्वं तद्रव्यश्रुतं भावश्रुतस्य निमित्तमिति शक्यं वक्तुम् / एवमुक्ते मूरिराह भा०-वक्तृविशेषाद् द्वैविध्यम् / यद् भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरहद्भिस्तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्वु 1 'श्चैदमेव पदं' इति ख-पाठः /