________________ तत्त्वार्थाधिगमसूत्रम् - [अध्यायः 1 द्विसम्पन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टम् / गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धा. गमैः परमप्रकृष्टवाङ्मतिबुद्विशक्तिभिराचार्यैः कालसंहननायुर्दोषादल्पशतीनां शिष्याणामनुग्रहाय यत् प्रोक्तं तदङ्गबाह्यमिति // ___टी०-वक्तृविशेषादित्यादिना / वक्तारः तस्य ग्रन्थराशेर्निबन्धकास्तेषां विशेषोमेदस्तस्माद् दैविध्यं-द्विविधत्वं-द्विभेदताऽनुमातव्या / यद्भगवद्भिरित्यादि। अयं पिण्डार्थः-तीर्थकृद्भिरर्थः कथितः स गणधरैर्गणधरशिष्यादिभिश्च रचित इति गणधरास्तद्वंशवर्तिनश्च द्वये वक्तारस्तद्भेदाद् द्विविधमिति / एतदाह-यद् उक्तं तैर्भगवद्भिरैश्वर्यादिगुणान्वितैः, सर्वद्रव्यपर्यायान् जानाति(नद्भिः) विशेषतः सर्वज्ञैः, तानेव सामान्यतः पश्यद्भिः सर्वदर्शिभिरिति / सामान्यकेवलिनो हि प्रधानभावं विभ्रति ऋषयः, प्रधानतरास्तीर्थकराः परमर्षिभिः इत्याह, पूजां त्रिदशादीनामर्हद्भिरित्यतोऽर्हद्भिः ( सम्बन्ध-का०७)। किमर्थं कृतकृत्या अर्हन्तो गणधरेभ्यः कथयन्त्यर्थमिति ? / उच्यतेतीर्थकरोपदेशे স্বাম " तत्स्वाभाव्यादिति / तेषामेष एव स्वभावस्तीर्थकृतां यतः - उत्पन्नदिव्यज्ञानैर्गणधरादिभ्यः प्रकाशनीयः सोऽर्थ इति, न च स्वभावेऽस्ति पर्यनुयोगो, भास्करप्रकाशवत् , किमर्थमयमंशुमाली जगत् प्रकाशयतीति न कश्चित् प्रश्नयति / अथवा अकृतार्थ एव तदा भगवान् , किमिति ? कर्मोदयभाक्त्वात् / कस्य कर्मण इति चेत् ? उच्यते-तीर्थकरनामाख्यस्य / तद्वयविशेषणमुपक्षिपति-परमशुभस्येत्यादि / परमं च तच्छुभं च परमशुभं तस्य / कथं परमशुभतेति चेद यतस्तस्मिन्नुदितेऽन्या असातादिकाः प्रकृतय उदिता अपि न स्वविपाकं प्रकटं दर्शयितुं शक्ताः; क्षीरद्रव्यापूरितकुम्भे पिचुमन्दरसबिन्दुवदिति / एवं परमशुभस्य, प्रवचनं द्वादशाङ्गं ततोऽनन्यवृत्तिर्वा संघस्तस्य प्रवचनस्य प्रतिष्ठापनं-निवर्तनं प्रयोजनमस्य तत्प्रवचनप्रतिष्ठापनफलं तस्य, तीर्थ तदेव गणिपिटकं सङ्घः, सम्यग्दर्शनादित्रयं वा तत् कुर्वन्ति-उपदेशयन्ति ये ते तीर्थकराः, तान् नामयति-करोति यत् तत् तीथकरनाम / तस्य तदेवाहदादिपूजाकरणाद्धेतोः क्रियमाणं कर्मेत्यभिधीयते तस्यानुभावात् , पश्चाद विपाकादित्यर्थः। अतस्तस्मादनुभावाद् यदुक्तं-प्रतिपादितं तीर्थकृद्भिः तदेव तीर्थकरप्रतिपादितमर्थजातम्-उत्पन्नमिति वा विनष्टमिति वा ध्रुवमिति वा इत्येवं तद् गृहीत्वा गणधरैः, तेषां त्रितयं विशेषणमुपक्षिपतिभगवच्छिष्यरित्यादिना स्वयं गृहीतलिङ्गतां निरस्यति / पुनश्च सामान्य पुरुषा न भवन्तीति दर्शयति-अतिशयवद्भिरिति / अतिशया:गणधरविशेष. णानां सार्थकता : विशिष्टाः शक्तयः। यथा-"पहू णं चउद्दसपुव्वी घडादो(ओ ? ) ___घडसहस्सं पडाओ पडसहस्स" इत्येवमादयः, ते येषां सन्ति तेऽतिशयवन्तस्तैरिति / तथा उत्तमातिशयेत्यादिना कुण्ठतां निरस्यति, यत उत्तमा अतिशयाः (बीज 1 प्रभुः चतुर्दशपूर्वी घटात् घटसहस्रं पटात् पटसहस्रम् (भगवत्यां सू० 199) / '