________________ सूत्रं 20] स्वोपज्ञभाष्य-टीकालङ्कृतम् कोष्ठादिबुद्धयः ) प्रसादादयः वाग्विवक्षितार्थप्रतिपादिका बुद्धिः वीजकोष्टकादि, यावद् भण्यते तत् सर्वमसौ गृह्णाति न किश्चित् न पश्यति तिलतुपमात्रमपीत्यर्थः / आभिरुत्तमाः अतिशयवाबुद्धिभिः सम्पन्ना-अन्वितास्तैः साधुवृन्दोपदेशनप्रवृतैर्गणधारिभिर्यत् दृब्धं-रचितं तदङ्गप्रविष्टमाचारादि भण्यते, अङ्गबाह्यं सम्प्रतितनैः कृतमिति तदुच्यते। गणधरा इन्द्रभूत्या. दयः तेषामनन्तरे ये साधवस्तेऽनन्तयोः शिप्या इत्यर्थः ते गणधरानन्तयोः जम्बूनामादयः आदिउँपांप्रभवादीनां ते गणधरामन्तर्यादयः, तैरत्यन्तनिर्मलागमैः परमप्रकृष्टा वाङ्मतिबुद्धिशक्तयो येषां तैरिति,वाग-भाषा स्पष्टवणा सकलदोषरहितामतिः,बुद्विश्चतुर्विधा,शक्तिः वादलब्ध्यादि / एवंविधैरपि नोज्झितचारित्ररित्येतदाह-आचार्यः ज्ञानाद्याचारानुष्ठायि मिरिति। किमर्थं तैस्तत एव प्रवचनादुद्धृत्य दशवकालिकादि रचितम्? उच्यते-अल्पशक्तीनामनुग्रहार्थम् / कस्मादल्पशक्तय इति चेत्? उच्यते-कालसंहननेत्यादि / कालदोषात् कालस्य दुःख(पमाभिधानस्य स्वभावात् पुरुषा अल्पशक्तयो भवन्ति, संहननच्छेदवर्ति स एव दोषस्तद्वाऽल्पसामर्थ्यम् , आयुः-जीवितं तदल्पं यः सर्वचिरं जीवेत् स वर्षशतमिति, अ. एतस्मात् कालादिदोषादल्पशक्तयः पुमांसो भविष्यन्तीत्येवं मन्यमानैर्गणधरैवंशजैः मूरिभिः शिष्याणां अनुग्रहाय-उपकारायाल्पेनैव ग्रन्थेन सुबहुमर्थमूहिष्यन्त इति मन्यमानैर्यत् प्रोक्तं दशवकालिकादि तदङ्गबाह्यमिति / अत एव द्विविधकारणात् मतेः सकाशात् महाविषयता सिद्धा, एतदाह भा०-सर्वज्ञप्रणीतत्वादानन्त्याच ज्ञेयस्य श्रुतज्ञानं मतिज्ञाश्रुतज्ञानस्य महा महा नान्महाविषयम् / तस्य महाविषयत्वात् तांस्ताननधिकृत्य विषयत्वात् अादिभेदः। प्रकरणसमाप्त्यपेक्षमङ्गोपाङ्गनानात्वम् / किंचान्यत् / सुख ग्रहणविज्ञानापोहप्रयोगार्थ च / टी०-सर्वज्ञप्रणीतत्वादित्यादि। सर्वस्तीर्थकृद्भिः प्रणीतत्वादुपदिष्टत्वात् महाविषयं श्रुतम् , यतः सङ्ख्यामतिक्रान्तानपि भावानाख्यातुं शक्तोऽनन्तान् श्रुतज्ञानानुसारेण पदार्थान् , किंच आनन्त्याज्ज्ञेयस्य, अनन्तं हि ज्ञेयमनेन निरूपयितुं शक्यते सामान्यतः, मन्तुमत्या सम्प्रतितनार्थग्राहिकया, श्रुतज्ञानं-ग्रन्थानुसारि मतिज्ञानादिन्द्रियसमुत्थात् महाविषयमनेकार्थपरिच्छेदीत्यर्थः। तस्य श्रुतज्ञानस्य महाविषयत्वाद्-बर्थविषयत्वात् ताँस्तान् जीवादीनर्यमाणानाश्रित्य / एतदुक्तं भवति-तत्र ग्रन्थे गणिपिटके ये विप्रकीर्णा अर्थास्तान् संकुलतया स्थितान् पश्यद्भिस्तैर्गणधरैस्तच्छिष्यादिभिश्च कथन्त्विदमेतावति ग्रन्थे परिसमाप्यत इति मन्यमानैरिदमङ्गमाचारादीदं च तदुपाङ्गमिति स्थापितम् , एतदाह-प्रकरणेत्यादि / प्रकरणं यत्र विवक्षित आचार इत्यादिरूपोऽर्थो निष्ठां याति तद भण्यते तस्य समाप्तिः तामपेक्षते यत् तत् प्रकरणपरिसमाप्त्यपेक्षम् , किं तद्? अङ्गोपाङ्गनानात्वमिति। किश्चान्यत् इतश्च कारणादङ्गोपाङ्गनानात्वमिति / सुखग्रहणेत्यादि / सुखेन-अनायासेनापूर्वस्य ग्रहणं करिष्यन्ति अङ्गा 1 चिह्नितोऽयं ख-पाठः। 2 ' ०पदेशेन ' इति ख-पाठः / 3 ' गणधरादिभिः ' इति स्व-पाठः /