________________ 94 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 नङ्गाना, सुखेन च गृहीतं धारयिष्यन्ति बुद्धया, सुखेन विज्ञानं तस्मिन्नर्थे शृण्वत उत्पादयिष्यन्तीति, सुखेन अपोहं-निश्चयं करिष्यन्ति इति एवमेपोऽर्थः स्थित इति, सुखेन च प्रयोगव्यापारं करिष्यन्ति प्रत्यवेक्षणादिकाले तेन विदितेनेति // भा०-अन्यथा ह्यनिबद्धमङ्गोपाङ्गशः समुद्रप्रतरणवद् दुरंध्यवसानं स्यात्। एतेन पूर्वाणि वस्तूनि प्राभृतानि प्राभृतप्राभृतानि अध्ययनान्युद्देशाश्व व्याख्याताः॥ ____टी०-अन्यथेत्यादि / अन्यथेति भेदेन रचनाया अभावे हि यस्मादनिबद्धमरचितं, कथमिति चेत, अङ्गोपाङ्गशः, अङ्गानि आचारागादीनि, उपाङ्गानि राजप्रसेनकीयौपपातिकादीनि, ताभ्यामकोपा भ्यां परिमिताविशिष्टार्थाभिधायिभ्यामङ्गोपाङ्गशः, अल्पार्थाच्छम् / समुद्रस्य प्रतरणम्-उत्तरणं तेन समुद्रप्रतरणेन तुल्यं यतेते समुद्रप्रतरणवत्, दुरध्यवसानं स्यादिति / दुःखेनाध्यवसीयते दुरध्यवसानम् / यावदेतदुक्तं भवति-ययेतच्छृतज्ञानमङ्गोपाङ्गादिभेदेन न रच्येत एवं सत्यानन्त्याद ग्रन्थस्य चातिबहुत्वाद् दुःखेन शिष्यस्तत्र रतिं बध्नीयात् / यथा महार्णवं पश्यतः पुंसो नभवति चेतोवृत्तिर्बाहुभ्यां प्रतरामीति, प्रतरणप्रवृत्तोऽपि चान्तराल एव रसभङ्गं प्रतिपद्यते, एवमिहापि यदा पुनरङ्गोपाङ्गादिकल्पनया रचनया प्रविभक्तो भवति स महान् ग्रन्थराशिस्तदाऽदभ्रनदीतडामतरणवत् सुगमो भविष्यतीत्यतोऽड्रोपाङ्गनानात्वमिति // अथ पूर्वादिरचना किमर्था इत्येवमाशङ्कथेत ? / उच्यते-तत्रापि नान्यत् करणे प्रयोजनमस्ति, किन्त्वेतदेव, तदाह-एतेनेत्यादि / एतेनाङ्गो. पाङ्गभेदप्रयोजनेन सुखग्रहणादिना पूर्वाणि दृष्टिपातान्तःपातीनि पूर्व प्रणयनात्, वस्तूनि पूर्वस्यैवांशोऽल्पः वस्तुनः प्राभृतमल्पतरं, प्राभृतात् प्राभृतप्राभृतमल्पतरं, ततोऽध्ययनं ग्रन्थतोऽल्पतरं, तत उद्देशकोऽल्पतर इति / व्याख्यातानीति / सुखग्रहणादि यदेवाङ्गोपाङ्गादिकरणे फलं तदेवात्रापीति // भा०-अत्राह-मतिश्रुतयोस्तुल्यविषयत्वं, वक्ष्यति द्रव्येष्वसर्वपर्यायेषु (1-27 ) इति / तस्मादेकत्वमेवास्त्विति / अत्रोच्यते___टी-सम्प्रत्येवं मन्यते परः-श्रुतज्ञानस्य द्विविधादिकरणे सूक्तमनेन प्रयोजनं, यदुक्तं मया-कः पुनर्मतिज्ञानश्रुतज्ञानयोर्विशेष इति, तत्रानेन सांप्रतार्थग्राहि मतिज्ञानं त्रिकालविषयं तु श्रुतज्ञानमित्ययं विशेषो दर्शितः, तत्रैतावताऽप्यपरितुष्यन् विषयकृतं च साम्यमुभयोरस्तीति मन्यमानः अत्रावसरे ब्रवीति-मतिश्रुतयोरुक्तस्वरूपयोस्तुल्यविषयत्वममिजग्राह, नासावाचक्ष्यते इहैवोत्तरत्र तस्य वक्ष्यमाणस्य सूत्रस्यैकदेशमुपन्यस्यति-द्रव्येष्वसर्वपर्यायेषु इति // सर्वेषु धर्मादिद्रव्येष्वसर्वपर्यायेषु मतिश्रुतयोः प्रवृत्तिर्निबन्ध इति। तस्माद्-विषयादेकरूपात् एकत्वमेव मतिश्रुतयोर्भवतु, न भेद इति, अत्रोच्यतें १"गृहीत्वा' इति ख-पाठः। २'दुरध्यवसेयं ' इति ख-पाठः। 3 'रूपस्य ' इति ख-पाठः / 4 'व्याख्याता इति' इति प्रतिभाति / ५'तत्रैवापरितुष्यन्' इति क-ख-पाठः / 6 'वाचष्टे' इति प्रतिभाति /