________________ लिङ्गं द्विविधं-द्रव्यलिङ्ग भावलिङ्गं च। भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था लिङ्गिनो भवन्तीति / द्रव्यलिङ्गं प्रतीत्य भाज्याः।" अपरश्च श्रीतत्त्वार्थटिप्पणकस्य प्रान्तमागे सूत्रविषयकपाठभिन्नतान्यूनाधिकताया विचारणे अनौमास्वातिकानि एतत्स्थलानि इति निर्दिष्टं वर्तते, परन्तु तदुपरि यथायोग्यविचारकरणाय समयाभावात् न किमपि विवृणोमि / तत् तत एवावलोकयन्तु आलोकवन्तः। एवं सूत्रकाराणां श्वेतपटत्वसमर्थनसमर्थानां युक्तीनां सद्भावेऽपि दिगम्बरमान्यताऽस्मिन् समानविषयके ग्रन्थे नासम्भविनी, यतः कल्याणमन्दिर-भक्तामर-सिन्दूरप्रकरादयो ग्रन्थाः श्वेतपटीया अपि मान्यन्त एवं दिक्पटीयैः। ___ अन्ते सौहार्दहृदयेभ्यो दिगम्बरमहाशयेभ्यो विज्ञप्तिरियं मम-यदा उपरितनयुक्तिषु स्खलनाः सम्भवेयुः, सूत्रकाराणां दिक्पटत्वसिद्धौ भवत्सकाशे च सूत्रगवेषणपूर्विका युक्तयो वर्तेरन्, तर्हि तत्तनिवेदनेन कृपां कुर्वन्तु भवन्त इति // ___टीकाविचार: अस्मिन् ग्रन्थे तत्त्वार्थाधिगमसूत्रस्य सम्बन्धकारिकोपरि टीकाद्वयं वर्तते / तत्र प्रथमा वीरं प्रणम्येत्यायेकपद्यपूर्विका श्रीदेवगुप्तसूरिप्रणीता। द्वितीया तु श्रीसिद्धसेनसूरिप्रणीता जैनेन्द्रशासनेतिपश्चपद्यात्मिकाऽवतरणकलिता पूर्वापेक्षया संक्षिप्ततरा / भाष्यानुसारिणी टीका तु श्रीसिद्धसेनमूरिभिरेव सन्दृब्धेति श्रीदेवगुप्तसूरिकतटीकाया अदर्शनादनुमीयते / परन्तु श्रीदेवगुप्तसूरिकृतायाः सम्बन्धकारिकाटीकायाः प्रान्ते. "इतीयं कारिकाटीका, शास्त्रटीकां चिकीर्षुणा / सन्दब्धा देवगुप्तेन, प्रीतिधर्मार्थिना सता॥१॥" इत्युल्लेखे विलसति कमात् तैः सूत्रटीका न व्यरचीति प्रश्नो विचारणीयः॥ किं यथा श्रीमलयगिरिमूरय आवश्यकस्य बृहत्कल्पस्य वृत्ति रचयन्त एव कालं चक्रुस्तथैतेऽपि / टीकाकारपरिचितिः श्रीदेवगुप्तसूरयः श्रीदेवगुप्तनामानौ द्वौ सूरी इति स्पष्टमयगम्यते नवपदनवतत्त्वप्रकरणयोर्विवरणविन्यस्तनिम्नलिखितप्रशस्तितः "तत्रासीदतिशायिबुद्धिविभववारित्रिणामग्रणीः सिद्धान्ताणेवपारगः स भगवान् श्रीदेवगुप्ताभिधः / सूरि रिगुणान्वितो जिनमतादुद्धृत्य येन स्वयं श्रातृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥४॥-शार्दूर० 1 अयमेवोल्लेखः सर्वार्थसिद्धिटीकायां (पृ० 270) /