________________ 28 तेनैव स्वपदप्रतिष्ठिततनुः श्रीककररिप्रभु नानाशास्त्रसुबोधबन्धुरमतिर्जज्ञे स विद्वानिह / मीमांसां जिनचैत्यवन्दनविधि पञ्चप्रमाणी तया ___बुद्ध्वा यस कृतिं भवन्ति कृतिनः सदोषशुद्धाशयाः ॥५॥-शार्दल. तत्पादपद्मद्वयचश्चरीका ___शिष्यस्तदीयोञ्जनि सिद्धसरिः। तसाद बभूवोज्वलशीलशाली . त्रिगुप्तिगुप्तः खल देवगुप्तः ॥६॥"-उपजातिः द्वितीयदेवगुप्तसूरयः पूर्वावस्थायां जिनचन्द्रगणीति नाना प्रथिता नवतलाकरणप्रणेतार इति समाप्ति( पञ्चदशम )गाथाविवरणात स्फुटमेवावगम्यते / सा गाथा पेयम् " ईय एए नवतत्ता, सभेयभिन्ना उ संगहनिमित्तं / / गणिणा जिणचंदेणं, सरणत्थं अप्पणो रहया // 1 // " श्रीपेशोदेवोपाध्यायनिर्मितं तद्विवरणं तु यथा " गणिना पाण्मासिकभगवत्यङ्गोपधानोद्वहनावाप्तगणिनाम्ना जिनचन्द्रेण पूर्वानस्थानामैतद, तस्योत्तरावस्थायां तु श्रीदेवगुप्ताचार्येणेत्यर्थः।" इमे जिनचन्द्रापराभिधानाः सूरयः श्रीककसूरीणां शिष्याः न तु प्रशिया इति प्रतिभाति नवपदप्रकरणप्रान्तगाथादर्शनात् / सा चैवम् "ईइ नवपयं तु एवं, रइयं सीसेण ककररिस / गणिणा जिणचंदेणं, सरणत्यमणुग्गहत्थं च // 1 // ". एतत् समर्थ्यते नवपदलघुवृत्तिप्रशस्त्याऽपि / सा घेत्यम्- ' 'नवपदटीका प्रोक्ता, श्रावकानन्दकारिणी।। श्रीदेवगुप्तसूरिभि-भोवयितव्या प्रयत्नेन // 1 // त्रिसप्त्यधिकसहस्र (1073), मासे कार्तिकसंज्ञिते / श्रीपार्श्वनाथ चैत्ये तु, दुर्गमाय च( त ? )पत्तने // 2 // छाया एवमेतानि नवतत्त्वानि समेदमित्रानि तु सङ्ग्रहनिमित्तम् / गणिना जिनचन्द्रेण स्मरणार्थमात्मनो रचितानि // 2 जिनचन्द्रसूरीणामन्तेवासी धनदेवेत्याद्यनामा / 3 छाया एवं नवपदं त्वेतद् रचितं शिष्येण ककत्सूरेः / गणिना जिनचन्द्रेण स्मरणार्थमनुग्रहार्थ च //