________________ कथं केवलिन्येकादश परीषहाः कथिताः 1 न च क्षुत्पिपासयोः मोहोदयसहायीकृतक्षुधादिवेदनीयजन्यत्वं सत्यमस्तीति वाच्यं, मोहोदयसहायीकृतक्षुधादिवेदनीयजन्यत्वस्य क्षुत्पिपासादिषु 'वेदनीये शेषाः' (अ० 9, सू० 16) इति सूत्रेण निराकृतत्वात् केवलवेदनीयजन्यत्वस्य प्रतिपादनाच्च / अन्यच्च क्षुत्पिपासयोः मोहोदयसहायीकृतवेदनीयजन्यत्वं नास्तीति सयुक्तिकं प्रतिपादितं न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयपादैः अध्यात्ममतपरीक्षाग्रन्थे चतुस्त्रिंशदतिशयानां सिद्धिप्रसङ्गे / _____ अपरश्च यथा मोहाभावात् अदर्शनलाभनाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्कारा इति एकादश परीषहाः केवलिषु न स्वीक्रियन्ते दिक्पटैरपि, तथैव क्षुत्पिपासे अपि मोहोदयसहायकाभावात् न स्वीक्रियेतां तैः, स्वीकारश्च तैः कृत इति विचारणीयं स्थलं विद्वद्भिः। 'पुलाकबकुशकुशील निर्ग्रन्थस्नातका निर्ग्रन्थाः' (अ० 9, सू०४६) इति सूत्रस्य व्याख्यानावसरे पुलाकादीनां विशेषप्रतिपत्त्यर्थमुक्तं श्रीमद्भट्टाकलङ्कदेवैः "पुलाकबकुशप्रतिसेवनाकुशीलाः द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्भवन्ति / ........ बकुशो द्विविधः-उपकरणबकुशः शरीरबकुशश्चेति / तत्र उपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तः, बहुविशेषयुक्तोपकरणकाङ्क्षी तत्संस्कारप्रतीकारसेवी भिक्षुरुपकरणचकुशो भवति / शरीरसंस्कारसेवी शरीरबकुशः / " ___-तत्त्वार्थराजवार्तिके (पृ० 359) एवं सति केवलकमण्डलु-पिच्छिकायुक्तनम एव साधुः, न तु विशेषोपकरणयुक्तपरिग्रहधारी इति मन्यमानान् दिगम्बरीयान् प्रति प्रश्नोऽयम्- . यदि भवतां मते पिच्छिकाकमण्डलू विनाऽन्यस्योपकरणस्यास्वीकार एव, तर्हि उपर्युक्तलक्षणानां बकुशनिग्रन्थानां निर्ग्रन्थत्वस्याभावः, तेषां उपकरणेषु सक्तचित्तत्वात, विविधविचित्रपरिग्रहयुक्तत्वात, बहुविशेषयुक्तोपकरणकाक्षित्वात्, तत्संस्कारप्रतीकारसेवित्वात् / यद्येषामपि निर्ग्रन्थत्वं स्वीक्रियते भवद्भिः, तर्हि किं न धर्मोपकरणानां मुक्तेरवाधकता स्वीक्रियते / 'परिग्रहः' (अ० 7, सू० 12) इति परिग्रहलक्षणस्वीकारात् बकुशनिम्रन्थेषु धर्मसाधनोपकरणसद्भावेऽपि मूर्छाया अभावात् निर्ग्रन्थत्वं समस्ति इत्यभिप्रायेणेदं सूत्रमुपन्यस्तं सूत्रकारैः इति विरोधपरिहारकरणं दिक्पटानां स्त्रमतव्याघातभीतेः दुःशकम् / अपरश्च दिगम्बरस्वरूपलिङ्गिन एव निग्रेन्थाः इति मन्यमानैर्दिगम्बरैर्विचारणीयः तत्त्वार्थराजवार्तिककाराणामयं मुद्रालेख: १सर्वार्थसिद्धिटीकायामप्येवंविध उल्लेखः।