________________ 25 नेति प्रतिमाति / अस्मिन्नभावे सिद्धे सूत्रकाराः श्वेताम्बरमतानुसारिण इति सण्टकृते / भगवतीप्रज्ञापनादिष्वागमेषु कालाणूनां प्रतिपादनं न कृतम् , एवं सति सूत्रकारैरपि आगमविरुदं सूत्रं न व्यरचि। ननु कालाणून् दिगम्बरा अपि नैव मन्यन्ते इति चेत् , तत्र, तत्त्वार्थराजवार्तिके (पृ० 228 ) 'वर्तना परिणामक्रिया परत्वापरत्वे च कालस्य' (अ० 5, सू० 22) इति सूत्रस्य व्याख्याने निम्नलिखितोल्लेखात् / ... "द्विविधः कालः-परमार्थकालः व्यवहाररूपचेति / तत्र परमार्थकालः वर्तनालिङ्गः गत्यादीनां धर्मादिवत् वर्तनाया उपकारकः / स किंखरूप इति चेत्, उच्यते-यावन्तो लोकाकाशे प्रदेशास्तावन्तः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिनाकाशप्रदेशे एकैकवृत्या लोकव्यापिनः / " . सूत्रकाराभिप्रायेण निश्चयकालस्यास्वीकारात् तत्स्वरूपाः कालाणवोऽपि न भवेयुः, अत एव तैस्तेषामवगाहक्षेत्रं न प्रदर्शितं, 'मूलं नास्ति कुतः शाखा' इति न्यायात् / ___किश्च यदि कालो मुख्यद्रव्यं स्यात् तर्हि 'अजीवकाया धर्माधर्माकाशपुद्गलाः' (अ० 5, सू० 1) इत्यत्राजीवरूपेण तस्याप्युल्लेखः करणीयो भवेत् / ततोऽनन्तरसूत्रे 'द्रव्याणि जीवाश्च' इत्यत्र कालस्यापि मुख्यद्रव्यरूपेण गणना स्यात् / न च कृता सूत्रकारैः, तमाम मुख्यद्रव्यरूपः कालः / न च 'गुणपर्यायवद् द्रव्यं ' (अ०५, सू० 38) इति द्रव्यस्य लक्षणकथनानन्तरं 'कालच' (अ० 5, सू० 39) इति सूत्रेण कालस्यापि मुख्यद्रव्यत्वरूपेण सिद्धिर्भवतीति वाच्यम् / यदि तत्रोल्लेखकरणेऽपि सा सिद्धिर्भवेत, तर्हि सर्वेषामपि द्रव्याणां मुख्यद्रव्यत्वसिद्धयर्थ तत्रैवोल्लेखः करणीयो भवेत्, न तु प्रथमतः / अपरञ्च तत्रत्यं "द्रव्याणी'ति सूत्रमपि निष्फलं स्यात् // क्षुत्-पिपासा-शीतो-ष्ण-दंशमशक-चर्या-शय्या-वध-रोग-तृणस्पर्श-मला इति परीषहव्याख्याने सूत्रकारैः किश्च 'एकादश जिने' ( अ० 9, सू० 11 ) इति सूत्रेण स्पष्टतयैव केवलिन्याहारपरीपहं व्याख्यायमानैः केवलिनामाहारसद्भाव आख्यायि / दिक्पटास्तु केवलिषु पात्राद्युपकरणाकवलाहारासम्भवमध्यास्यमाना नेवं मन्वते, स्वस्वव्याख्यासु च निषेधाय नमध्याहारादि कुर्वन्ति, परीषहाणां गुणस्थानावतारप्रसङ्गे निषेधाध्याहारादि विहाय असङ्गतं किमपि व्याख्यायते तैः / अत्र चार्य विवेकः-दिक्पटाः केवलिषु कवलाहारं नैवाभिमन्यन्ते, श्वेताम्बरास्तु स्वीकुर्वन्ति / यदि दिकपटीयाभिप्रायेण मोहोदयसहायीकृतक्षुवेदनाया अभावाद् भगवति केवलिनि क्षुत्पिपासाप्रसङ्गाभावः, ततः १'म्याणि ' 'जीवाश्च ' इति पृथक् पृथक् सूत्रं दिक्पटमते। 2 श्वेताम्बरमते सप्तत्रिंशत्तमं सूत्रमिदम् / 'कालव्धेत्येके' (अ.५, सू०३.) इति श्वेताम्बरमतसूत्रपाठः /