________________ प्रन्थकारसम्प्रदाय: श्वेताम्बरदिगम्बरसम्प्रदायानुसारि वृत्तान्तद्वयं विचारितम् / अधुना सूत्रकाराः श्वेताम्बरीया दिगम्बरीया वा इत्यन्वेषणा क्रियते / उभयपक्षे ग्रन्थस्य प्रामाण्यरूपेण स्वीकृतिस्तस्मात् तद्गतसूत्रगवेषणेनैव ग्रन्थकारसम्प्रदायो निश्चेतव्य इति युक्तियुक्तो मार्गः / अतोऽन्ययुक्तीनामत्रोपेक्षा क्रियते / ___तत्र चतुर्थाध्याये ‘दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः' इति तृतीये सूत्रे सूत्रकारैर्भवनवासिनां दश व्यन्तराणामष्टौ ज्योतिष्काणां पञ्च कल्पोपपत्रवैमानिकानां च द्वादश भेदा इति देवभेदप्रदर्शकमुद्देशसूत्रमुक्तम् / दिगम्बरानुयायिटीकाकारमहाशयैरपि सर्वार्थसिद्धिटीकायां (पृ. 135) तत्त्वार्थराजवार्तिके. (पृ० 150) तत्त्वार्थश्लोकवार्तिके (पृ० 372 ) चेदं सूत्रं मौलिकरूपेण कक्षीकृतम् / * परन्तु सूत्रसंगृहीतभेदप्रदर्शनसमये भवनवासिनां व्यन्तराणां ज्योतिष्काणां तु यथार्थभेदान् प्रदर्शयित्वा वैमानिकानां भेदप्रदर्शनसमये सूत्रकाराभिमतान् द्वादश भेदान् परित्यज्य षोडशभेदानां प्रदर्शनं दिगम्बरैः कृतं, तस्मात् किं उद्देशभङ्गदोषारोपणं न भवति / यदि कल्पोपपनवैमानिकानां षोडशभेदप्रदर्शनं सूत्रकाराभिमतं स्यात, तर्हि 'दशाष्टपश्चषोडशविकल्पाः कल्पोपपन्नपर्यन्ताः' इति उद्देशसूत्रं विदध्यात् / न च व्यधात् / तेसादनौमाखातिकमेतदित्यनुमीयते / विचार्यतामुभयपक्षीयसूत्रम् / तत्र दिगम्बरसम्प्रदाये यथा ___" सौधर्मेशानसानत्कुमारमाहेन्द्रब्रमब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेप्यानतप्राणतयोरारणाच्युतयोर्नवसु प्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च / " -तत्त्वार्थराजवार्तिके अ० 4, सू० 19 / श्वेताम्बरसम्प्रदाये तु___"सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च।" . _ -(अ०४, सू० 20) सूत्रकाराणां श्वेताम्बरत्वेऽन्या युक्तिरपि / तथाहि-पञ्चमाध्याये द्रव्याणामवगाहनिरूपणसमये यथा 'धर्माधर्मयोः कृत्स्ने' (लोकाकाशे), 'एकप्रदेशादिषु भाज्यः पुद्गलाना', 'असङ्ख्येयभागादिषु जीवानां' इति सूत्राणि रचितानि, तथैव यदि मुख्यकालरूपाः समग्रलोकगताः कालाणवः सत्याः स्युस्तर्हि तेषामप्यवगाहक्षेत्रं साक्षात् प्रदर्शितं भवेत् / न च केनापि प्रकारेण सूत्रकारैर्दर्शितं, तसात् कालाणूनां मुख्यकालरूपेण सत्ता तेषां मतेऽपि वैमानिकानो लेझ्यास्थित्यधिकारे दिगम्बरमान्यताया दुर्घटनाऽपि विचारणीया।