________________ 252 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 प्रथममेखलायां तावत्प्रतिक्रान्तिविस्तृतं तावती चासौ प्रतिक्रान्तिश्च तावत्प्रतिक्रान्तिः, विस्तारः पञ्चयोजनशतप्रमाण एव, तावत्प्रतिक्रान्त्या विस्तृतमेवंप्रकारेण विस्तीर्णमित्यर्थः / तञ्च द्वितीयं वनं नन्दनं नाम / ततोऽत्रिषष्टीत्यादि / त्रिपष्टिसहस्रसङ्ख्यापूरणस्य योजनसहस्रार्धेन युक्ता सङख्यात्रिपष्टिरुच्यते / अत्र पञ्च योजनशतानि द्वितीयकाण्डप्रमाणादाक्षिप्तानि नन्दनवनेनेत्यतोऽधत्रिपष्टिसहस्राण्यारुह्योपरि / पञ्चयोजनशतविस्तीणमेव द्वितीयमेखलायां सौमनसं वनं तृतीयं भवति / ततोऽप्युपरि षत्रिंशत् सहस्राण्यारुह्य चतुर्नवत्युत्तरैश्चतुर्भिर्योजनशतैर्विस्तीर्ण पाण्डुकं नाम वनं मेरोः शिरसि तुर्यमवसेयम् / अयं च मेरुगिरिने सर्वत्र समप्रमाणप्रवृद्धः , किन्तु प्रदेशपरिहाण्या परिहीयमानः प्रवृद्ध इति / तद् दर्शयति-नन्दनसौमनसाभ्यामित्यादि / नन्दनादूर्ध्व सामनसाचाधः किल मध्य एकादशैकादश योजनसहस्राण्यारुह्य योजनसहस्रं परिहीयते विष्कम्भस्येति, ऊर्ध्वं सौमनसानन्दनवनाच्चाधो न सूरिणा परिहाणिरुक्ता / प्रदेशपरिहाणिग्रहणमङ्गुलादिप्र(सिद्धयर्थमङ्गुलादि)प्वप्ययमेव परिहाणि विधिरिति / एपा च परिहाणिराचार्योक्ता न मनागपि गणितप्रक्रियया सङ्गच्छते , यतः सौमनसवनेऽन्तर्विष्कम्भः सहस्रत्रय शतद्वयं द्विसप्तत्यधिकमष्टौ चैकादशभागाः , बहिर्विष्कम्भः पुनः संहस्रचतुष्टयं शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्य / तत्राचार्योक्तपरिहाण्या नैकोऽपि विष्कम्भ आगच्छति, न चैतावत्या चा ( सत्यावा ) गमेऽधीतत्वाच्छ्रङ्गग्राहिकयेति / गणितशास्त्रविदो हि परिहाणिमन्यथा वर्णयन्त्यानुसारिणः / मेरोर्योजनान्य॒र्ध्वमेका लक्षा, तत्राधो भूमावदृश्य योजनसहस्रमपचयरहितं,सर्वत्र च वृत्तविष्कम्भो योजनसहस्राणि दश,यद् दृश्यं तत्र परिहाणिः,भद्रशालवनादध्वं पञ्च योजनशतान्यारुह्य सर्वतश्च पञ्चयोजनशतान्यन्तः प्रविश्य नन्दनवनं भवति / तत्र वने मेरोरन्तर्बहिर्वा कीदृगु विष्कम्भ इति,तत्रेदं कर्म त्रैराशिकभङ्गया- यदि योजनमेकमारुह्योपरि वृत्तक्षेत्रेऽपचयः सर्वत्रैकादशभागो योजनस्य ततः पञ्च योजनशतान्यारुह्य कोऽपचयः स्यात् / लब्धं पञ्चचत्वारिंशन योजनानि पञ्च चैकादशभागा योजनस्य,एतदधस्तनवृत्तदशसहस्रविष्कम्भादपास्य शेषमुपरि विष्कम्भो नन्दनवने बहिलेभ्यत इति, स चायम्-नव सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि पट् चैकादशभागाः योजनस्य / अस्माच्च बहिविष्कम्भात् सर्वतो नन्दनवनचक्रवालविष्कम्भं पञ्चशतिकं द्विगुणमपास्यान्तर्विष्कम्भोऽयं नन्द नवन एव भवति-अष्टो सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि पट चैकादशभागाः। इदानीं नन्दनवनादुपरि योजनसहस्राण्यर्धत्रिपष्टिरा(मा)रुह्य को मेरुविष्कम्भो बहिर्भवति ? अत्रापि तदेव कम, यदि योजनमारुह्य वृत्तविष्कम्भे सर्वतोऽपचयो योजनस्यैकादशभागस्तत अद्यार्धत्रिपष्टिः(प्टिं)योजनसहस्राणि कोऽपचयो भवेदिति? लब्धं पञ्च सहस्राणि पट् शतान्येकाशीत्यधि 1 'चाधोधो न' इति क-पाठः / 2 'प्रत्ययया' इति क-पाठः। 3 32726 / 4 4272,5 / 5 45 /