________________ स्त्र 9 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 251 यथा शरीरमध्ये नाभिरवयवोऽङ्गिनां भवत्येवमसौ मेर्जम्बूद्वीपस्य मध्ये व्यवस्थित इति मेरुनाभिरुच्यते। कण्ठेकालवद गमकत्वात् समासः / व्यधिकरणबहुव्रीहिभीत्या वाक्यान्तरेणाहमेरुवाऽस्य नाभिरिति मेरुनाभिः, नाभिशब्दो मध्यवचन इति दर्शयति, मेरुरस्य मध्ये इत्यर्थः / वृत्त इत्यनेन प्रतरवृत्ताख्यानं करोति, तत्प्रदर्शनार्थं च कुलालचक्राकृतिरित्याह / भा०--लवणादयो वलयवृत्ताः, जम्बूद्वीपस्तु प्रतरवृत्त इति यथा गम्येत, वलयाकृतिभिश्चतुरस्रव्यस्रयोरपि परिक्षेपो विद्यते तथा च मरुस्वरूपम् मा भूदिति // मेरुरपि काञ्चनस्थालनाभिरिव वृत्तो योजनसहस्रमधो धरणितलमवगाढः नवनवत्युच्छ्रितः दशाधो विस्तृतः सहस्रमुपरीति / त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुर्भिर्वनैर्भद्रशाल नन्दन सौमनसपाण्डकैः परिवृतः / तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमे प्रथम काण्डम् / द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलम् / तृतीयं षत्रिंशत् सहस्राणि जाम्बूनद्वहुलम् / वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशद योजनान्युच्छायेण मूले द्वादश विष्कम्भेण मध्येऽष्टावुपरि चत्वारीति / मूले वल. पपरिक्षपि भद्रशालवनम् / भद्रशालवनात् पञ्च योजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृतं नन्दनम् / ततोऽर्धत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रतिकान्तिविस्तृतमेव सौमनसम् / ततोऽपि षत्रिंशत् सहस्राण्यारुह्य चतुर्नवतिचतुःशतप्रतिक्रान्तिविस्तृतं पाण्डुकवनमिति / नन्दनसौमनसाभ्यामेकादशैकादश सहस्राण्यारुह्य प्रदेशपरिहाणिर्विष्कम्भस्येति // 9 // टी.-.--लवणाद्यो वलयवृत्ताः। अयं पुनः कुलालचक्रवत् प्रतरवृत्त इति नियम आपाघते, योजनेयत्ताभिधानं तच्छेपविष्कम्भप्रसिद्धयर्थम्,न वलयाकृतिना लवणजलधिना परिक्षिप्त इति वृत्तताऽवगम्यते यस्माद् वलयाकृतिभिश्चतुरस्रव्यस्रयोरपि परिक्षेपो विद्यत इति प्रेक्षापूर्वकारितया च मेरुविशेषणतयोपात्तस्तत्स्वरूपमप्याख्यास्यामीत्यत आह-मेरुरपि काञ्चनस्थालनाभिरिव वृत्तः, काञ्चनस्थालं-काञ्चनपात्री तन्मध्ये नाभिस्तद्वद् वृत्तः, अधस्ताद् योजनसहस्रं प्रविष्टः नवनवतिसहस्राणि दृश्योच्छायः, यददृश्यं सहस्रं भूमौ तत् सर्वत्र विष्कम्भायामाभ्यां दश सहस्राणि, उपरि सहस्रं यत्र चूलिकोद्गमः / काण्डं विशिप्रमाणानुगतो विच्छेदः / त्रिकाण्डः त्रिलोकस्पृक चतुर्भिर्वनैर्भद्रशालाभिर्वेष्टितः। तत्र च यद् भूमावरगाढं पृथिव्यादिविशेषणं योजनसहस्रप्रमाणं तदेकं काण्डम, भूपरितलारब्धं द्वितीयं त्रिषष्टियोजनसहस्राणि रजतादिविशेषणं, तृतीयं तदुपरि षट्त्रिंशत् सहस्राणि जम्बूनदबहुलं,ततस्तदुपरि वैहयवहुला चूलिकाऽस्य चत्वारिंशद्योजनोचा, उद्गमप्रदेश विष्कम्भायामाभ्यां द्वादश योजनानि, मध्येऽष्टौ उपरि चत्वारि / भूमौ व्यवस्थितं भद्रशालवनं वलयाकृति,भद्रशालवनभूमेः पञ्च योजनशतान्यारुह्योपरि