________________ 250 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः पिणो वलयाकृतयश्च प्रत्येतव्याः // ननु चानितिमेवेदं द्विढिविष्कम्भा इति, सति मौलविष्कम्भे नितिस्वरूपे युज्यत एतच्छेपाणां, द्विगुण इत्यत्र तु स एव न निरूपित इत्यत्रा शङ्कमान आह भा०-योजनशतसहस्रं विष्कम्भो जम्बूद्वीपस्य वक्ष्यते (सू०९)।तद्विगुण लवणजलसमुद्रस्य, लवणजलसमुद्रविष्कम्भाद द्विगुणो धातकीखण्डद्वीपस्य,इत्ये. वमास्वयम्भूरमणसमुद्रादिति // पूर्वपूर्वपरिक्षेपिणः / सर्वे पूर्वपूर्वपरिक्षेपिणः प्रत्येतव्याः / जम्बूद्वीपो लवणसमुद्रेण परिक्षिप्तः / लवणजलसमुद्रो धातकीखण्डद्वीपेन परिक्षिप्तः / धातकीखण्डद्वीपः कालोदसमुद्रेण परिक्षिप्तः / कालोदसमुद्रः पुष्करवरद्वीपार्धन परिक्षिप्तः। पुष्करवरछीपार्धमानुषोत्तरेण पर्वतेन परिक्षिप्तम्। पुष्करवरद्वीपः पुष्करवरोदेन समुद्रेण परिक्षिप्तः / एवमास्वयम्भूरमणात् समुद्रादिति // वलयाकृतयः। सर्वे च ते वलयाकृतयः सह मानुषोत्तरेणेति // 8 // टी०-योजनशतसहस्रं जम्बूद्वीपविष्कम्भो वक्ष्यते अनन्तरागामिनि सूत्रे / शेषेषु लवणजलादिपु द्विगुणद्विगुण इति पूर्व पूर्व उत्तरणोत्तरेण परिक्षिप्तो-वेष्टितस्तच्छीलेनेति, एतच्चानिष्टविनिवेशव्यावृत्त्यर्थं वचनम्, तियगेवं व्यवस्थिता इत्यर्थः / वलयस्येवाकृतिः-संस्थान येषां लवणजलादीनां ते वलयाकृतयः, चतुरस्रादिनिवृत्त्यर्थ चेदमवगतव्यम्, शेपं सुज्ञानमेव भाष्यमित्यतो न विवियत इति // 8 // वलयाकृतयो द्वीपा इत्यनन्तरसूत्रेऽभिहितम्, अतो जम्बूद्वीपस्यापि द्वीपत्याद् वलयाक तिप्रसक्तिस्तदपवादायेदमुच्यते सूत्रम्--तन्मध्ये मेरुनाभित्तो योजनशतसहस्र विष्कम्भो जम्बूद्वीपः // 3-2 // . टी-जम्वृतरुप्रधानत्याज्जम्बूद्वीपः / भा०-तेषां द्वीपसमुद्राणां मध्ये तन्मध्ये। मेरुनाभिः, मेरुरस्य नाभ्यामिति __ मेरुर्वाऽस्य नाभिरिति मेरुनाभिः / मेकरस्य मध्ये इत्यर्थः / - सर्वदीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतिर्योजनशतस हस्रविष्कम्भो जम्बूद्वीपः, वृत्तग्रहणं नियमार्थम् / टी.-तेषामित्यादि भाष्यम् / अनेन विशिष्टसमासप्रतिपत्ति दर्शयति / तेषामसङ्ख्येयानामुक्तलक्षणानां द्वीपसमुद्राणां मध्ये तन्मध्ये इति, मध्यमत्र नैश्चयिक, न व्यावहारिकमिति / अन्येऽपि जम्बूद्वीपाः सन्त्यतो विशेषणमाह-मेरुनाभिरिति / नाभिरिव नाभिः, जम्व 1 योजन - 4000 क्रोशाः / 2 'पुष्करद्वीपार्ध' इति घ-पाठः।