________________ सूत्रं 8 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 249 नामानि, नाशुभान्यपीति, अस्मिन् पक्षे सङ्ख्योन्नेया / द्वीपादनन्तरः समुद्रः समुद्रादनन्तरो द्वीपः इत्यनेनैतत् कथयति-नासङ्ख्येयसकलद्वीपपरिसमाप्तौ जातायां पश्चाल्लवणादयः समुद्राः, किन्तु प्राक् तावद् द्वीपः पश्चात् समुद्रोऽनन्तरः पुनीपः पुनः समुद्र इत्येवमास्वयम्भूरमणसमुद्रादिति // एतदेव विवृणोति यथासङ्ख्यमित्यादिना भाष्येण भा०-यथासङ्ख्यम् / तद्यपा-जम्बूद्वीपो द्वीपःलवआपसमुद्र णोदः समुद्रः / धातकीखण्डो दीपः / कालोदः समुद्रः। नामानि पुष्करवरो द्वीपः / पुष्करोदः समुद्रः / वरुणवरो द्वीपः / वरुणोदः सनुद्रः / क्षीरवरो दीपः / क्षीरोदः समुद्रः। घृतवरो द्वीपः / घृतोदः समुद्रः / इक्षुवरो द्वीपः / इक्षुवरोदः समुद्रः / नन्दीश्वरो द्वीपः / नन्दीश्वरोदः समुद्रः / अरुणवरो द्वीपः / अरुणवरोदः समुद्रः / इत्येवमसङ्ख्यया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्या इति // 7 // ____टी०-लवणोद इति, "संज्ञायामुत्तरपदस्य " ( परिभाषे ) इति वचनादुदभावः, शेष सुज्ञानम् / पर्यन्ते उपसंहरति, न खलु शक्यन्ते नामग्राहमाख्यातुमसङ्ख्येयत्वादत एवंप्रकारा द्वीपाः समुद्राश्चासंख्येयाः स्वयम्भूरमणसमुद्रपर्यन्ता वेदितव्याः / सर्व चैतज्जम्बूद्वीपादिसमुद्रद्वीपवलयजालमस्यामेव रत्नप्रभापृथिव्यामवस्थितमवसेयम्, एतावांच तिर्यग्लोकः न ततः परम्, अधोलोकादिविभागतचेह लोकोऽपदिश्यते साकल्येन सर्वज्ञज्ञानविपयत्वात् / सर्वं हि ज्ञेयं ज्ञातव्यं सर्वज्ञेनोपदेष्टव्यं च चरित्रोपयोगि श्रद्धानलक्षणसम्यग्दर्शनविषयतया च निरवशेपं मुक्तिमार्गाङ्गतया, तथातिशयज्ञानविभूतिलाञ्छितत्वाञ्च सवोतीन्द्रियाणां पदाथानां सुप्रत्ययितपुरुषप्रत्यक्षेक्षितजनपदव्यवहारप्रतिपत्तिवत् सर्व सुश्रद्धानमित्यवेत्य मुक्तसंशयं प्रतिपत्तव्यम्, ज्योतिपनिमित्तगणितशास्त्राणां सर्वज्ञलाञ्छनत्वात् ध्यानप्रक्रियायां च लोकसन्निवेशविशेपजीवोत्पादादिचिन्तनमुपदिष्टमतो यदभिदधते बालिशाः कुतकेपटप्रसारणपटवो बटवः, क्लेशादिप्रहाणोपायोपदेशवहिर्भूतो द्वीपसमुद्रादिसनिवेशोपदेशो मुमुक्षोरनुपदेशा( श्यः अ )युज्यमानत्वात्, तदपास्तमवसातव्यमिति // 7 // एते चानन्तरसूत्रनिर्दिष्टा द्वीपाः समुद्राश्च सर्वेऽपिसूत्रम्--द्विर्दिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः // 3-8 // भा०-सर्वे चैते द्वीपसमुद्रा यथाक्रममादितो द्विििर्वष्कम्भाः तत्यानपूर्वपूर्वपरिक्षेपिणो वलयाकृतयः प्रत्येतव्याः। तद्यथाटी-सर्वे चैत इत्यादि भाष्यम् / जम्बूद्वीपादयो द्वीपाः स्वयम्भूरमणसमुद्रपयन्ता येन क्रमेण व्यवस्थिता निर्दिष्टा वा तेन क्रमेण, आदितः प्रभृति लवणसमुद्रप्रभृति, द्विगुणविष्कम्भा भवन्ति / विष्कम्भो-व्यासो विस्तारः तत्क्रमानुसारितयैव पूर्वपूर्वपरिक्षे. 1 क्षीरवरोदः' इति घ-टी-पाठः / 2 'नन्दीश्वरवरोदः' इति घ-पाटः / द्वीपसमद्र 32