________________ 248 तत्त्वार्थाधिगमसूत्रम् / [ अध्यायः 3 भा०-उक्तं ह्येतद् / भूमयः सप्ताधोऽधः पृथुतराइछन्नातिच्छत्रसंस्थिताः तिर्यग्लोक- (अ०३, सू०१) इति ता यथोक्ताः / तिर्यग्लोको झल्लयांकृतिः। प्रस्तावना ऊलोको मृदङ्गाकृतिरिति / तत्र तिर्यग्लोकप्रसिद्धयर्थमिद माकृतिमात्रमुच्यते // 6 // टी०-उक्तं ह्येतदित्यादिना / यथोक्तं यथासन्निवेशं यथाप्रमाणं चाधोलोक इति। झल्लयांकृतिस्तियालोकः। झल्लरी सर्वत्र समतला तुल्यविष्कम्भायामा वादिनविशेषस्तद्वत् तिर्यग्लोकसन्निवेशः, स च विष्कम्भायामाभ्यां रज्जुप्रमाणो जम्बूद्वीपमेरुरुचकमध्य इति / मृदङ्गाकृति लोक इति // मृदङ्गो चादिनविशेष उपरिष्टादधश्च संक्षिप्तो मध्ये पृथुस्तद्वदूर्वलोकः, ऊर्वाधः किश्चिदूनसप्तरज्जुको ब्रह्मलोकाऽधोव्यवस्थितकृष्णराजिमध्यगलो. कान्तिकदेवनिवासरिष्ठविमानप्रस्तारमध्यस्तिर्यक्पञ्चरज्जुप्रमाणो ब्रह्मलोकप्रदेशेऽन्यत्र प्रेदेशहान्या अनियतप्रमाण इति / तत्र च त्रितयेऽधोलोकः प्रागाख्यातः,अधुना तिर्यग्लोक प्रसिद्धयर्थमिमाकृतिमात्रमुच्यते, एवंविधस्तिर्यग्लोक इत्यस्यार्थस्य प्रतीतये सर्वमिदं आ अध्यायपरिसमाप्तेः प्रतायते, संस्थानमात्रं , मात्रशब्दः संक्षेपाभिधानार्थः केनचिलेशोद्देशेन न पुनर्विस्तरेणेति, विस्तरतस्तु द्वीपसागरप्रज्ञप्त्यादिभ्योऽधिगन्तव्य इत्यावेदयति // 6 // सूत्रम्-जम्बूदीपलवणादयः शुभनामानो द्वीपसमुद्राः // 3-7 // भा०-जम्बूद्धीपादयो दीपा लवणादयश्च समुद्राः / शुभद्वीपसमुद्र - नामान इति / यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः / शुभान्येव वा नामान्येषामिति ते शुभनामानः। द्वीपादनन्तरः समुद्रः। समुद्रादनन्तरो द्वीपः // टी-जम्बूद्वीपादयो दीपा इत्यादि भाष्यम् / जम्बूद्वीप ·इति संज्ञासंजिसम्यन्धोऽत्रानादिः, पुरुषप्रवाहानादित्वात, जम्बूतरोश्च सर्वदा सत्त्वात लोकसन्निवेशस्य च न कदाचिदनीदृशत्वात्, स च शब्दार्थसम्बन्धः पुरुषान्तरव्यवस्थाप्योऽनादिप्रयाहरूपोऽपि व्यवहारक्षमतया सनियुज्यत इति / जम्बूद्वीपादयो द्वीपाः लवणादयः समुद्रा इत्यादिशब्दस्य प्रत्येकमभिसम्बन्धमापादयति / शुभनामान इत्यनेन विशिष्टामेव संज्ञा द्वीपसमुद्राण प्रतिपादयति, शुभानि च तानि नामानि चेति शुभनामानि प्रशस्ताभिधानानीत्यर्थः / शुभनामानि येषां ते शुभनामानः, एतदेव स्पष्टयति-यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः / कियन्ति पुनस्तानि ? असङ्ख्येयानि लोके शुभनामानीति। तचासङ्ख्येयकं विशिष्टमेव परिगृह्यते, तद्यथा-असङ्ख्येयखण्डवालाप्रभूतासङ्ख्येयवर्षकोट्युद्धारकालसूक्ष्मपल्योपमप्रपञ्चनिष्पन्नार्धतृतीयसागरोपमोद्धारसमयराशिप्रमाणतुल्या द्वीपसमुद्राः / शुभान्येव वा नामान्येषामिति एतावदविगानेनावधार्यते, शुभानि हि सर्वेषां द्वीपसमुद्राणां १'ब्रह्महान्या' इति ख-पाठः / व्यवस्था