________________ सूत्र 6] . स्वोभाष्य-टीकालङ्कृतम् 247 . टी--ते चास्तिकाया इत्यादि / अस्ति च ते कायाश्चास्तिकायाः, प्रवाहनित्यतामस्तिशब्दः प्रतिपादयति, न कूटस्थनित्यताम्, कायग्रहणं प्रदेशावयवबहुत्वार्थमिति पञ्चमे वक्ष्यते, स्वतत्त्वतः-स्वरूपतः-औपशमिकादिभावतः स्वतत्त्वो जीवः / विधानतः-संसारिमुक्तादिभेदतः, लक्षणतः-उपयोगो लक्षणमित्येवं जीवास्तिकायोऽभिहितः, शेषाच कचित् प्रसङ्गेनेत्यत उक्ताः, पञ्चमे पुनः प्रतिपदमेव वक्ष्यन्ते धर्मास्तिकायादयः स्वतत्त्वविधानलक्षणैरिति // स चैवंविधलक्षणः लोकः क्षेत्रविभागेन त्रिविधः अधस्तिर्यगूच चेति / क्षेत्रविभागो विशिष्टमर्यादाव्यवच्छिन्नः, तद्यथा-समतलाद् भूभागादधोऽवगाह्य नव योजनशतानि रत्नप्रभाव्यवस्थितोपरितनाधस्तनक्षुल्लकातरारब्धः सप्तमधरायाः परतो यावत् षोडश योजनानि तावदधोलोकः, तिर्यग्लोकस्तु तेभ्य एव क्षुल्लकातरेभ्य आरब्धोऽष्टादशयोजनशतान्यूद्धमारुह्य यावज्ज्योतिर्लोकोपरितनतलस्तावद् भवति, ज्योतिर्लोकोपरितनतलारयो यावदूवं सिद्धक्षेत्रादुपरि योजनमेकं तावदृ लोक इति // अधुना लोकसंस्थानव्याख्यानायाह-धर्माधर्मास्तिकायावित्यादि / धर्माधर्मद्रव्ये हि वक्ष्यमाणे समन्ततो लोकसन्निवेशमर्यादाव्यवस्थायाः कारणभूते, यावत्याकाशेऽवगाढे यथावस्थिते तथा तदवगाहनवशाल्लोकसनिवेशः / ननु क्वचित् पृथुनी कचित् तनुके कचित् प्रदेशवृद्धिपरिहाणियायिनी केन सन्निवेशं ग्राहिते इत्याह-लोकानुभावनियमात् / लोकानुभावो हि महानुभावश्चित्रानेकशक्तिगर्भोऽनादिपारिणामिकस्वभावविशेपस्तत्कृतादेव नियमात् तथासंस्थाने ते द्रव्ये नेश्वरादीच्छाविरचिते, इत्येवं धर्माधर्मद्वयव्यवस्थानकृतो लोकसन्निवेशः / स च सुप्रतिष्ठकवज्राकृतिः सुप्रतिष्ठकवज्रयोरिव संस्थान-आकृतिर्यस्यासौ सुप्रतिष्ठकवज्राकृतिर्लोकः, सुप्रतिष्ठक:शरयन्त्रकं यत्र व्यवस्थाप्य वासांसि धूप्यन्ते, तत् किल बहनुहरति लोकसन्निवेशस्य, वज़मपि शक्रायुधं तदपि बहुसदृशमाचक्षते प्रवचनविदः, लोकसंस्थानस्य स्फुटतरः सन्निवेशोऽमुनव सुरिणा प्रकरणान्तरे (प्रशम० गा० 210-211 ) अभिहितस्तद्यथा "जीवाजीवौ द्रव्यमिति षविध भवति लोकपुरुषोऽयम् / वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः / / आर्या तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् / / स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् // " // एवं समुदायसन्निवेशमाख्यायाधुना प्रत्येकमधोविभागादिसन्निवेशाभिधित्सया आहअधोलोको गोकन्धरार्धाकृतिः / गोग्रीवायास्त्वधरमर्धमुपरिष्टात् सङ्क्षिप्तमधस्तात् क्रमवृद्ध्या विशालं विशालतरं च भवति तद्वदधोलोकसन्निवेशः , उपरि तनुकोऽधस्तु विशालो विशालतरश्चेति / एतदर्थसमर्थनायाह १'सिद्धिक्षेत्रात् ' इति क-ख-पाठः। २'तदा' इति ग-पाठः / 3 ते तु' इति ग-पाठः / 4 'केन था' इति ग-पाठः।