________________ 246 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 भा०-यच्च वायव आपो धारयन्ति न च विष्वग् गच्छन्ति आपश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते / पृथिव्यश्चाप्सु विलयं न लोकानुभावजाः बजार गच्छन्ति। तत् तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोकविनिपदाथों वेशस्य लोकस्थितिरेव हेतुर्भवति / टी०-यच्च वायव इत्यादि / तनुवातवलयमाकाशप्रतिष्ठमनालम्बनं धनवातवलयं त्रिभर्ति, धनमारुतवलयमप्यापो धत्ते, न च ता आपो विष्वग् गच्छन्ति,विशीर्यन्ते स्रवन्तीत्यर्थः आपश्च कठिनीभूताः सत्यः पृथिवीर्धारयन्ति न स्पन्दन्ते, ताश्च पृथिव्यो न तास्वप्सु विलीयन्ते, स एष सर्वोऽप्यनादिपारिणामिकः क्रमसनिवेशो नित्यसन्ततिर्द्रव्यास्तिकनयावलम्बनात् / तथा चागमः-"इमा णं भंते ! रयणप्पभा पुढवी किं सासता असासता ? गोयमा! सिय सासया सिय असासया, से केणडेणं भंते ! एवं वुचइ ? गोयमा ! दव्वयाए सासया, वणपज्जवेहिं गन्धपज्जवेहिं रसपजवेहिं फासपज्जवेहि असासया, से एतेणं अटेणं गोयमा! एवं बुच्चइ" / अस्यावस्थानस्य लोकानुभाव एव हेतु:-कारणं भवतीति! भा०-अत्राह-उक्तं भवता-'लोकाकाशेऽवगाहः' (अ०५, सू०१२), 'तदनन्तरमूवं गच्छत्यालोकान्तात् (अ०१०, सू० 5) इति / तत्र लोकः कः कतिविधो वा किंसंस्थितो वेति ? / अत्रोच्यते-पञ्चास्तिकायसमुदायो लोकः / टी०-अत्राह-उक्तं भवतेत्यादिः सूत्रपातनिकाग्रन्थः / सूत्राण्यधिकृत्योच्यते, उक्त भवता-'लोकाकाशेऽवगाहः' पञ्चमेऽध्याये (मू०१२), तथा दशमे (मू० 5) 'तदनन्तरमूवं गच्छत्यालोकान्तादिति, " एवमनेकस्मिन् सूत्रे लोकशब्द उच्चरितः, तत्र को लोकः कतिविधो वा किंसंस्थितो वेति ? उच्यते-पञ्चास्तिकायसमुदायो लोकः / धर्माधर्माकाशजीवपुद्गलाः पञ्चास्तिकायास्तत्समुदायो लोकः, आकाशमाधारो भवति, धर्मादयस्त्वाधेयाः, आधाराधेयमावेन यदवस्थानमनाद्यमेपां स लोकः, तथा चागमः"किमिदं भंते ! लोगेत्ति पञ्चति? गोयमा ! जीवा चेव अजीवा चेव"। भा०-ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता वक्ष्यन्ते च / स च लोकः क्षेत्रविभागेन त्रिविधः-अधस्तिर्यगूर्व चेति / धर्मा लोकस्य त्रैविध्यं धर्मास्तिकायौ लोकव्यवस्थाहेतू / तयोरवगाहनविशेषाल्लोका नुभावनियमात् सुप्रतिष्ठकवज्राकृतिर्लोकः / अधोलोको गोकॅन्धरार्धाकृतिः // 1 इयं भदन्त ! रत्नप्रभा पृथ्वी कि शाश्वतो अशाश्वती? गौतम ! स्यात् शाश्वती स्यात् अशाश्वती / तत् केना. थेन भदन्त / एवमुच्यते ? गौतम ! द्रव्यार्थतया शाश्वती. वर्णपर्यवैर्गन्धार्यवै रसपर्यवेः स्पर्शपर्यवैरशाश्वती. तदेतार्थेन गौतम ! एवमुच्यते। 2 किमयं भदन्त ! लोक इति प्रोच्यते? गौतम ! जीवाश्चैव अजीवाश्चैव / 3 गूर्वश्चेति' इति घ टी-पाठः। ४'लोकहेतू' इति क-ग-पाठः। 5 कन्धराकृतिः इति क-खपाठः। 'कन्धाराधरार्धाकृतिः' इति तु ग-पाठः /