________________ सूत्रं 6 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 245 षट्स्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशतिसागरोपमा जघन्या स्थितिर्भवति / इयं चस्थितिर्जघन्या उत्कृष्टा वा सामान्येनैकस्यां पृथिव्यामुक्ता न प्रथमप्रतरादिभेदेन,प्रतिप्रतरं स्थितिपरिज्ञानाय विशेषार्थिना नरकेन्द्रकाः समालोकनीया इति / अथैतासु सप्तसु पृथिवीषु किमविशेषेण सर्वे प्राणिनो नरकास्रवर्तिनः सर्वानुत्पद्यन्ते उत केचित् कस्याश्चिदिति, तथा के वा कुतो भूमेरुदवृत्ताः सन्तो भवन्ति, किं वा लभन्ते सम्यग्दर्शनादीनाम् ? इत्यत आहभा०-तत्रास्रवेषु यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामुत्प द्यन्ते / सरीसृपा द्वयोरादितः प्रथमद्वितीययोः / एवं पक्षिणस्ति. नारकाणामाMAHINI सृषु / सिंहाः चतसृषु। उरगाः पञ्चसु / स्त्रियः षट्सु / मत्स्यम नुष्याः सप्तस्विति। न तु देवा नारका वा नरकेषूपपत्तिमाप्नुवन्ति / नहि तेषां बद्वारम्भपरिग्रहादयो नरकगतिनिर्वतका हेतवः सन्ति(अ०६,सू० 16) / नाप्युद्धवं नारका देवेषुत्पद्यन्ते। न ह्येषांसरागसंयमाद्यो देवगतिनिर्वतका हेतवः सन्ति (अ०६,सू० 20) / उदृत्तास्तु तिर्यग्योनौ मनुष्येपु वा उत्पद्यन्त। मनुध्यत्वं च प्राप्य केचित् तीर्थकरत्वमपि प्राप्नुयुरादितस्तिमृभ्यः, निर्वाणं चतसृभ्यः, संयम पञ्चभ्यः, संयमासंयम षड्भ्यः , सम्यग्दर्शनं सप्तभ्योऽपीति / _टी०-तत्रास्रवेषु यथोक्तैर्नारकसंवर्तनीयरित्यादि भाष्यं सुज्ञानम् // अधस्तनीषु षट्स्वपि भूमिपु रत्नप्रभादिवत् किं द्वीपादिविनिवेशाः सन्ति ? न सन्तीत्यत आह'भा०-द्वीप-समुद्र-पर्वत-नदी-हद-तडाग-सरांसि वा ग्राम-नगर-पत्तनाद ___ योविनिवेशा बादरोवनस्पतिकायो वृक्ष-तृण-गुल्मादिः दीन्द्रिनारकेष्वसंभविनः दावन यादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति / __अन्यत्र समुद्घातोपपातविक्रियासमतिकनरकपालेभ्यः / उपपाततस्तु देवा रत्नप्रभायामेव सन्ति / नान्यासु / गतिस्तृतीयां यावत् / ___टी०--द्वीपसमुद्रेत्यादि भाष्यं सुज्ञानं प्रायः / नैते द्वीपादयः सन्ति सन्निवेशा रत्नप्रभामपहायान्यत्रेति, एतस्य विधेरपवादः अन्यत्र समुद्घात इत्यादि / समुद्घातगताः केवलिनः, औपपातिका नारका एव, तथा वैक्रियलब्धिसम्पन्नाः, साङ्गतिकाः पूर्वजन्ममित्रादयः, नरकपालाः परमाधार्मिकाः, एते सर्वेऽपि द्वितीयादिषु भूमिषु कदाचित् केचित क. चित् संभवेयुरपीति, उपपातमङ्गीकृत्य रत्नप्रभायामेव देवाः सन्ति न शेषासु, गमनमङ्गीकृत्य यावत् तृतीयां ततः परं न गच्छन्त्येव, शक्तौ सत्यामपि लोकानुभावादेवेति / तथा अन्यमपि लोकानुभावमादर्शयति प्रसङ्गात् 5 'तत्रास्रवैः' इति घ-पाठः / 2 उद्वर्तितास्तु' इति घ-पाठः /