________________ 244 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 राणि दण्डराजिरिवाम्भसि // एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति // 5 // टी०-अम्बाम्बरीषेत्यादि भाष्यम् / अम्बाः, अम्बरीपाः, श्यामाः, शवलाः, रुद्राः, उपरुद्राः, कालाः, महाकालाः, असयः, असिपत्रवनाभिधानाः, कुम्भीनामानः, वालुकाभिधानाः, वैतरणीसंज्ञाः, खरस्वराः, महाघोपाश्चेति एते पञ्चदशासुरनिकायान्तःपातिनो देवविशेषा एव परमाधार्मिका उच्यन्ते / अधर्मचारिणः अधार्मिकाः / प्रकर्षपर्यन्तवर्तिनः अधामिकाः परमाधार्मिका इति / एते च भिन्नहेतुकदुःखोत्पादनादेवावाप्तताग्विधसंज्ञाः समवगन्तव्याः, शेष भाष्यं सुज्ञानमेव प्रायः, एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्ति, परस्परोदीरणजनितानि क्षेत्रस्वभावोत्पन्नानि सङ्लिष्टासुरोदीरितानि वाऽऽचतुर्थ्याः, चतुर्थ्यादिषु परस्परोदीरितानि क्षेत्रानुभावजनितानि चेति द्विविधान्येवेति॥५॥ नारकाश्चानपवायुष्वादनुबद्धातिविषमदुःखानुमूलालीढमूर्तयो नाकाले मर्तुमिच्छन्तोऽपि हि नियन्ते, पूर्णे स्वायुपि पश्चादुद्वतिष्यन्ते, तत् पुनः स्वायुस्तेषां किमित्यत आहसूत्रम्-तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्राविंशति-त्रयस्त्रिंशत् सागरोपमाः सत्त्वानां परा स्थितिः // 3-6 // टी०-'तासु नरका' इत्येतान् नरकान् सूत्रत्रयान्तरितान् भाष्यकृदभिसम्बन्धयति॥ भा०-तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति / तद्यथा-रत्नप्रभाया. ____मेकं सागरोपमम् / एवं त्रिसागरोपमा, सप्तसागरोपमा, दशनारकाणां परा स्थितिः र सागरोपमा, सप्तदशसागरोपमा, द्वाविंशतिसागरोपमा, त्रय स्त्रिंशत्सागरोपमा इति / जघन्या तु पुरस्तादू वक्ष्यते / 'नारका. णां च द्वितीयादिषु' , 'दश वर्षसहस्राणि प्रथमायाम्' (अ०४, सू०४३-४४) इति॥ टी-तेपु-उक्तलक्षणेषु नरकेषु ये सत्त्वाः / सत्त्वशब्दः प्रेक्षापूर्वकारितयोपात्तः अनुकम्पाप्रदर्शनार्थम् / सत्त्वा वराका इति, क्लेशभुजो जनाः सत्त्वा इति लोकेऽनुकम्पाशब्देनोच्यन्ते / एताश्चोत्कृष्टाः स्थितयो भवन्ति, रत्नप्रभायामेकं सागरोपमं प्रकृष्टा स्थितिः सत्त्वानाम, एवं त्रिसागरोपमा स्थितिर्द्वितीयस्यामित्यादि सुज्ञानम् / उपमानमुपमा-सादृश्यं सागरेणोपमाः सागरोपमाः,बहुत्वप्रतिपादनार्थ सागरग्रहणम्, एका(क) सागरोपमा(मं) प्रमाणं यस्याः स्थितेःसैकसागरोपमा स्थितिरित्येवमन्यत्रापि योज्यम् / जघन्या स्थितिः पुरो वक्ष्यते लाघवमुपजीवताऽऽचार्येण चतुर्थेऽध्याये-'नारकाणांच द्वितीयादिपु' 'दश वर्षसहस्राणि प्रथमायाम् (सू० ४३-४४)इति, / रत्नप्रभायामवरतो दश वर्षसहस्राण्यायुपः स्थितिः, द्वितीयादिषु 1 निकायानामुपपातिनः' इति क-पाठः / 2 . ०पमाः ' इति क-ख-ग-पाठः /