________________ 243 सूत्र 5] स्वोपज्ञभाष्य-टीकालङ्कृतम् .टी.-चशब्दः परस्परोदीरणं क्षेत्रस्वभावं चाभिमुखीकरोति / प्राक् चतुर्थ्या इति मर्यादा नाभिविधिरिति / सतिष्टचित्तास्त्वशुभानुवन्धिवालतपोकामनिजेरोपार्जितदेवजमानः स्वल्पविभवलाभाध्माता जन्मान्तरानालोकिनः एतावत्रैलोक्ये सुखमित्यव्यवसिताः। ते च भवनवासिनां प्रथम एवासुरनाम्नि निकाये भवन्ति, नान्येषु, तेषु नामोत्कीर्तनेनापि रौद्रतया भयमादधति किमुत दर्शनेनेत्यावेदयति भा०-तद्यथा-अम्बाम्बरीष-श्याम-शबल-रुद्रोपरुद्रकाल-महाकालास्यसिपत्रवन-कुम्भी-वालुका-चैतरणी-खर-स्वर-महाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु सक्लिष्टकर्माणः पापाभिरतयः आसुरीं गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणां वेदनाः समुदीरयन्ति विचित्राभिरूपपतिभिः / तद्यथा--तप्तायोरसपायननिष्टप्तायःस्तम्भालिङ्गनकूदशाल्मल्यग्रारोप __णावतारणायोधनाभिघातवासीारतक्षणक्षारतसतैलाभिषेचपरमाधामिक नायस्कुम्भपाकाम्बरीषभजनयन्त्रपीडनायाशूलशलाकाभेदन . क्रकचपाटनाङ्गारदहनवाहनसूचीशाड्वलापकर्षणैस्तथा सिंहव्याघ्र-दीपि-श्व-शृगाल-वृक-कोक-मार्जार-नकुल-सर्प-वायस-गध्र-काकोलूक-श्येनादिखादनैस्तथा तप्तवालुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति॥ स्यादेतत् किमर्थमेवं ते कुर्वन्तीति / अत्रोच्यते-पापकर्माभिरतय इत्युक्तम्। तद्यथा-गो-वृषभ-महिष-वराह-मष-कुक्कुट-वार्तकलावकान्मुष्टिमल्लांश्च युध्यमानान परस्परं चाभिघ्नतःपश्यतांरागद्वेषाभिभूतानां अकुशलानुबन्धिपुण्यानां नराणां पराप्रीतिसत्पद्यते तथा तेषामसुराणांनारकास्तथा तानि कारयतामन्योन्यं घ्नतश्च पश्यतां परा प्रीतिरुत्पद्यते / ते हि दुष्टकन्दस्तिथाभूतान् दृष्ट्वाऽटहासं मुश्चन्ति, चेलोत्क्षेपाक्ष्वोडितास्फोटितावल्लिततलतालेनिपातांश्च कुर्वन्ति, महतश्च सिंहनादान नदन्ति / तच्च तेषां सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपहतस्यानालोचितभावदोषस्याप्रत्यवक स्याकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं, यत्सत्स्वप्यन्येषु प्रीतिहेतुष्वशुभभावा एव प्रीतिहेतवः समुत्पद्यन्ते / इत्येवमेप्रीतिकरं निरन्तरं सुतीनं दुःखमनुभवतां मरणमपि काङ्क्षतां तेषां न विपत्तिरकाले विद्यते, कर्मनिर्धारितायुषाम् / उक्तं. हि-'औपपातिकचरमदेहोत्तमपुरुषासंख्ययवर्षायुषोऽनपवायुषः' (अ०२, सू०५३) इति। नैव तत्र शरणं विद्यते, नाप्यपक्रमणम् / ततः कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेषां सद्य एव संरोहन्ति शरी १.पायिनोनिष्ट ' इति क-पाठः। 2. तर्जन' इति घ-पाठः। 3 'वतरासिपत्र' इति क-पाठः / 'निपातनाश्च' इति ग-पाठः, 'निपातनांश्च' इति तु घ-पाठः / 5 'मप्रतीकारम्' इति ग-टी-पाठः।