________________ 242 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः भा०-तत्र क्षेत्रस्वभावजनितः पुद्गलपरिणामः शीताष्णक्षुत्पिपासादिः। शीतोष्णे व्याख्याते / क्षुत्पिपासे वक्ष्यामः / अनुपरतशुष्कन्धक्षेत्रजा वेदना नोपादाननेवाग्निना तीक्ष्णेन प्रततक्षुदग्निना दन्दह्यमानशरीरा अनुसमयमाहारयन्ति ते सर्वपुद्गलानप्यास्तीव्रया च नित्यानुषक्तया पिपास या शुष्ककण्ठोष्टतालजिहाः सर्वोद्धीनपि पिबेयुः, न च तृप्ति समाप्नुयुस्ते वèयातामेव चैषां क्षुत्तृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि // ....टी.-तत्र क्षेत्रस्वभावजानितेत्यादि सुगमम् / पुनः सूत्रं परामृश्य सूत्रार्थाख्यान करोति // भा०-परस्परादीरितानि च / अपि चोक्तम्-'भवप्रत्ययोऽवधि रकदेवानाम्'(अ०१,सू०२२)इति / तत्रारकेप्ववधिज्ञानम् अशुभभवहेतुकंमिथ्यादर्शनयोगाच्च विभङ्गज्ञानं भवति / भावदोषोपघातात तुतेषां दुःखकारणमेव भवति / तेन हिते सर्वतः तिर्यगू मधश्च दूरत एवाजलं दुःखहेतून् पश्यन्ति / यथा च काको लूकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः। यथा वा अपूर्वान् शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्त्यन्योऽन्यं प्रहरन्ति च, तथा तेषां नारकाणामवधिवि .... षयेण दूरत एवान्योऽन्यमालोक्य क्रोधस्तीव्रानुशयो जायते, परस्परोदीरितं स्त दुरन्तो भवहेतुकः / ततः प्रागेव दुःखसमुद्घातार्ताः क्रोधा. दुःखम् ग्न्यादीपितमनसः अतर्किता इव श्वानः समुद्धता वैक्रियं भयानक रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायःशूलशिला-मुशल-मुद्गर-कुन्त-तोमरासि-पहिश-शक्ति-योधन-खड्ग-यष्टि-परशु-भिण्डि मालादीन्यायुधान्यादाय कर-चरण-दशनैश्वान्योऽन्यमभिघ्नन्ति / ततः परस्पराभिहता विकृताङ्गा निस्तनन्तो गाढवेदनाः सूनाघातनप्रविष्टा इव महिषशूकरोरभ्राः स्फुरन्तो रुधिरकर्दमेऽपि चेष्टन्ते। इत्येवमादीनि परस्परोदीरितानि नरकेषु नारकाणां दुःखानि भवन्तीति // 4 // टी-परस्परोदीरितानि चेत्यादि / परस्परोदीरणायां कारणं दर्शयति-अपि चो. क्तं-भवप्रत्ययोऽवधिारकदेवानामिति मिथ्यादृशां विमङ्गज्ञानमितरेषामवधिज्ञानमेव, शेष सुज्ञानमत्र भाष्यमिति // 4 // एवं ते परस्परेणोदीरयन्ति दुःखम्, विशेषेण तुसूत्रम्-सक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुथ्याः // 3-5 // भा-सक्लिष्टासुरोदीरितदुःखाश्च नारका भवन्तीति / तिसृषु भूमिषु माक् चतुर्योः। १.नितपुद्गल.' इति ख-घ-पाठः / २'तीक्ष्णोदरामिना' इति ग-पाठः' 'तीक्ष्णेन प्रततेन क्षुद० ' इति तु घ-पाठः / 3 'येन ते' इति ग-पाठः / 4 'प्नुयुर्वर्धयाता' इति ग-पाठः। 5 'शक्त्ययोधन' इति क-पाठः /