________________ सूत्रं 4 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 241 अशुभतरविक्रियाः / अशुभतराश्च विक्रिया नरकेषु नारकाणां भवन्ति, शुभं करिष्याम इत्यशुभतरमेव विकुर्वते / दुःखाभिहतमनसश्च दुःखप्रतीकार चिकीर्षवः गरीयस एव ते दुःखहेतून विकुर्वते इति॥३॥ टी-अशुभतराश्च वेदना इत्यादि भाष्यम् / प्रथमायां तीव्रोष्णवेदना, द्वितीयस्यां सैव तीव्रतरा, तृतीयस्यां तीव्रतमा, चतुर्थ्यामुष्णवेदनाका बहवो नारकाः, शीतवेदनाकास्त्वल्पे, तेनोभय्यपि वेदना तस्याम्, पञ्चम्यां शीतवेदनाका बहवः स्तोकास्तूष्णवेदनाकाः, तत्राप्युभय्येव वेदना, षष्ठयामतिशीता, सप्तम्यां शीततमेति // अधुनावेदनाद्वयस्यापि किञ्चित् साधर्म्यमङ्गीकृत्य दृष्टान्तद्वयमुपन्यस्यति असद्भावप्रज्ञापनया, न पुनारकः केनचिदुत्क्षेप्तुमानेतुं चेह शक्यते, प्रकृष्टाशुभकर्मानुभावादेवेति, न च तत्राग्निरस्ति पृथिवीपरिणाम एवासौ क्षेत्रस्वभावादनादिपरिणामलक्षणः प्रकृष्टोष्णतानुगतः सन्तमसंरूपः सत्त्वानां दुःखहेतुरिति // तद्यथा प्रथमशरत्काल इत्यादि भाष्यमेव सुज्ञानम् // अशुभतरविक्रिया इत्यादि भाष्यम्, उत्तरवैक्रियं हि ते शरीरमाकलितप्रयत्ना अपि रचयन्तो रूपवत्तेच्छया क्षेत्रकर्मानुभावाद् विरूपतरमाविष्कुर्वते विदूषकवदिति // 3 // ते च नारकास्तासु भूमिषु नरकेषु वा / सूत्रम्-परस्परोदीरितदुःखाः // 3-4 // भा०-परस्परोदीरितानि च दुःखानि नरकेषु नारकाणां भवन्ति / क्षेत्रस्वभावजानिताचाशुभात् पुद्गलपरिणामादित्यर्थः // टी०-मिथ्यादृष्टयो भवप्रत्ययविभङ्गानुगतत्वादालोक्य परस्परमेवाभिघातादिभिर्दुःखानि उत्पादयन्ति, सम्यग्दृष्टयस्तु संज्ञित्वादेवात्मानमनुशोचन्तोऽतीतजन्मानाचारकारिणं क्षेत्रस्वभावजनितानि दुःखानि सहमानाः परैरुदीरितवेदनाः स्वायुषः क्षयमुदीक्षन्तेऽतिदु:खिताः न पुनरन्यनारकाणां ते समुदीरयन्ति वेदनाः, तेषां चावधिज्ञानं न विभङ्ग इति / न केवलं परस्परोदीरणनिर्वृत्तानि तेषां दुःखानि किन्तु सहजान्यपि सन्तीत्यत आह-क्षेत्रस्वभावेत्यादि / नरकक्षेत्रस्यायमेव स्वभावो यद् दुःखात्मकता। नहि तत्र काचित सुखमात्रा समस्ति / यदपि ह्युपपातादिहेतुकं सुखमाचक्षते तदपि बहुतरदुःखपरिलीढत्वादल्पकालस्थायित्वाच्च दुःखमेव, अत एवंविधक्षेत्रानुभावनिवेर्तितपुद्गलपरिणामाच ते दुःखमनुभवन्तीत्यर्थः / एतदेव वचनं व्याख्यानयति सूत्रमपहाय 'अशुभतरवेदना' इति ग-पाठः / 2 'स्वरूपः' इति क-पाठः / 31