SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 240 तत्वार्थाधिगमसूत्रम् [ अध्यायः चतुर्हस्तं धनुरिति / अथ शेषासु कथं भूमिष्वित्यत आह--द्विह्निः शेषासु / रत्नप्रभानास्त शरीरप्रमाणं द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणम् / तदपि द्विगुणं तृतीयस्याम् / एवं यावत सप्तम्यां पञ्च धनुःशतानि पूर्णानि / उत्तरवैक्रियं तु प्रथमायां जघन्येनाङ्गुलसङख्येयभागप्रमितम्, अन्यासु च, उत्कर्ण पञ्चदश धषि अर्धतृतीयाश्च रत्नयः प्रथमायाम्, एतदेव द्विगुणं द्वितीयस्याम्, एवं तावत् ज्ञेयं यावत् सप्तम्यां धनुःसहस्रमिति / एतच्चाधःप्रमाणे रत्नप्रभादिषु पर्यन्तवर्तिप्रतरनारकाणामुत्कृष्टं द्रष्टव्यम्, जघन्यमुत्कृष्टं वा प्रथमप्रतरादिभेदेन सर्वत्र वक्तव्यम्,स्थितिवत् / यथाऽऽयुपः स्थितिः प्रथमप्रतरादिभेदेन भिद्यमाना दशनवतिसहस्रादिना रत्नप्रभायां पर्यन्तप्रतरे सागरोपमप्रमाणा भवत्येवमेव शरीरप्रमाणमपि प्रथमप्रता दिभेदेन जघन्योत्कृष्टाभ्यां भेत्तव्यमित्यावेदयति / उक्तमिदमतिदेशतो भाष्यकारेणास्ति चैतत्, न तु मया कचिदार्गेमे दृष्टं प्रतरादिभेदेन नारकाणां शरीरावगाहनमिति // भा०--अंशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः। तद्यथा--प्रथमायां उष्णवे दनाः, द्वितीयायामुष्णवेदनाश्च, तीव्रतरास्तीव्रतमाश्चातृतीयायानारकाणावदना म, उष्णशीते चतुर्थ्याम् , शीतोष्णे पञ्चम्याम्, परयोः शीततराः शीततमाश्चेति, तद्यथा-प्रथमशरत्काले चरमनिदाघे वा पित्तप्रकोपाभिभूतशरी रस्य सर्वतो दीसाग्निराशिपरिवृतस्य व्यत्रे नभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति / पौषमाघयोश्च मासयोस्तुषारलिप्तगात्रस्य रात्री हृद्यकरचरणाधरोष्ठदशनायासिनि प्रतिसमयप्रवृद्धे शीतमारते निरग्न्याश्रयप्रावरणस्य यादृक् शीतसमुद्भव दुःखमशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति / यदि किलोष्णवेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशावुद्दीप्ते प्रक्षिप्येत सकिल सुर्शातां मृदुमारुतां शीतलच्छायामिव प्राप्तः सुखमनुपमं विन्द्यात्, निद्रां चोपलभेत, एवं कष्टतरं नारकमुष्णमाचक्षते। तथा किल यदि शीतवेदनानरकादुक्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सैदन्तशब्दोत्तमप्रकम्पायासकरेऽपि तत्सुखं विन्द्यादनुपमा निद्रां चोपलभेत, एवं कष्टतरं नारकशीतदुःखमाचक्षते इति / / 1 कशब्दः क-ख-पाठे नास्ति / २'शरीराणां द्विगुणं' इति क-ख-पाठः / 3 'पूर्णानीति' इति ग-पाठः / 4 'प्रमाणं' इति क-पाठः / 5 आगमशब्देनात्र मूलागमः, तेन वृत्यादिषु एतत्सत्वेऽपि न क्षतिः, उत्तर तु पृथ्वीवर द्वेगुणमिति स्पष्टमेव / 6 'अशुभतरवेदनाः' इत्यधिको ग घ-पाठः / 7 'तद्यथा-उष्णवेदनास्तीवास्तीव्रतरास्तीबतमाश्च तृतीयायाः' इति ग-घ-पाठः। ८'शीताः शीततराश्चेति' इति घ-पाठः / ९'प्रकृष्टमुष्ण' इति क-ख-पाठः / .'तुषारभिन ' इति क-पाठः / 11 'सदन्त' इति घ-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy