________________ सूत्रं 10 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 253 कानि नव चैकादशभागा योजनस्य / एतन्नन्दनवनान्तर्विष्कम्भादपास्य शेषमुपरि सौमनसेऽन्तर्विष्कम्भो लभ्यते / स चायम् त्रीणि सहस्राणि शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्येति। अस्मिन्नेव सौमनसान्तर्विष्कम्भे सौमनसवनचक्रवालविष्कम्भं पञ्च[विंशतिकं द्विगुणं निधाय बहिर्विष्कम्भो लभ्यते, स चायम् चत्वारि सहस्राणि द्वे शते द्वातरसप्तत्यधिके अष्टौ चैकादशभागा इति / इदानीं सौमनसवनादारुह्योपरि पत्रिंशद्योजनसहस्राणि पाण्डकवनं भवति / तस्य च विष्कम्भो योजनसहस्रम्, सौमनसवनाद योजनमारुह्य कोऽपचयो भवतीति नाभिहितः / स चायमपचयो गणितधर्मण भवति-यदि योजनमेकमारुह्य योजनस्य पण्णवतित्रिशतभागाः पञ्चविंशतिक्षयः (१)सर्वतस्ततः पत्रिंशन योजनसहस्राण्याख्या कोऽपचयो भवेदिति ? लब्धं संहस्रत्रयं शतद्वयं च द्वयुत्तरसप्तत्यधिकं योजनैकादशभागाधाष्टौ / एतत् सौमनसवनाभ्यन्तरविष्कम्भादपास्यं स्यात्, शेषमुपरि पाण्डुकवनस्य वृत्तविकम्भो योजनसहस्रमिति // 9 // स एवंविधो जम्बूद्वीपः सप्तक्षेत्रात्मको बोद्धव्यः / तानि चामूनिसूत्रम्-तत्र भरत-हैमवत-हरि-विदेह-रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि // 3-10 // भा०-तत्र जम्बूद्वीपे भैरतहैमवतहरयो विदेहाः रम्यकभरतादिक्षेत्रस्व देण्यवतमरावतमिति वंशाःक्षेत्राणि भवन्ति / भरतस्योत्तरतः हैमवतम् / हैमवतस्योत्तरतः हरयः / इत्येवं शेषाः। वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति / .... टी-तत्र जम्बूद्वीप इत्यादि भाष्यम् / तत्रोक्तलक्षणे, जम्बूद्वीप इत्यनेनैतद् दर्शयतिन द्वीपान्तराण्येतानि भरतादीनि, किन्तु जम्बूद्वीपस्यैवैकस्य विशिष्टावधिका विभागा इति, जगतः स्थितेरनादित्वात् संज्ञामात्रम् भरतदेवनिवाससम्बन्धाद् वा भरतं भारतं वा, हिमवतोऽभवत्वाद हैमवतम्, हरयो विदेहाश्च पञ्चालतुल्याः, रम्यकमिति संज्ञायां कन्, हैरण्यवत हरण्यवतदेव निवाससम्बन्धात्, तथैरावतमपीति / एवमेते सप्त वंशा वर्षाः क्षेत्राणीत्यनातरत्वं दर्शयति / / अधुना विशिष्टक्रमसन्निवेशप्रदर्शनाभिधित्सया आह-भरतस्योत्तरतो हैमवतमित्यादि गतार्थ प्रायः / वंशादीनि गुणतः पर्यायनामानि भवन्तीति / वंशाः किल पर्ववन्तो भवन्ति तद्वत् पर्वभागविभजनाद् वंशा एवामी भरतादयः, वर्षसन्निधानाच्च वर्षाः, मनुजादिनिवासाच्च वास्याः। 1 327266 / 2 42726 / 3 32726 / 4 भरत हैमवतं हरयो' इति घ-पाठः / रूपम्