________________ 254 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः भा०-सर्वेषां चैषां व्यवहारनयापेक्षादादित्यकृताद् दिगनियमादुत्तरत मेरुर्भवति / ___टी-सर्वेषामित्यादि भाष्यम् / सर्वक्षेत्राणां चैषां भरतादीनामैरावतपर्यन्तानां ज्यवहारनयापेक्षादादित्यकृताद् दिगनियमादुत्तरतो मेरुर्भवति / व्यवहारो हि सङ्ग्रीतानां पदार्थानां विधिपूर्वकमवहरणं, लोकप्रसिद्धव्यवहारतत्परत्वात्, न खलु निश्चयमवलम्बते, सर्वव्यवहारोच्छेदप्रसङ्गात् / तथा चाह-"असत्योपाधि यत् सत्यं, तद्वच्छब्दनिवन्धनम्" इति शुक्ला बलाका कृष्णो भ्रमर इत्येवमादिप्रसिद्धिवशव्यवस्थितमेव वस्तु प्रतिजानीतेऽस्तीति / तमेवंविधव्यवहारनयमपेक्षते यो दिग्नियमः सवितगतिजनितस्तस्माद् दिग्नियमात् सर्वेषामुत्तरतो मेरुदक्षिणतश्च लवणजलनिधिरिति / न पुनश्चयिकदिग्व्यवस्थासमासादनेनेदमुच्यते, किन्तु यस्मिन् क्षेत्रे यत्रादित्य उदेति सा दिक् प्राची, यस्यामस्तमेति सोऽऽशा प्रतीची, कर्कटकादिराशीन् धनुर्धरान्तान् यत्र व्यवस्थितश्चरति क्रमेण सा दक्षिणा, तथा मकरादीन मिथुनान्तान् यत्र स्थितश्चरति सोत्तरा दिगिति,तथाऽन्तरालदिशि(शः) एतत्संयोगाद्वाच्याः / तथोर्ध्वमधश्च / सवित्रपेक्षैव दिग् व्यवह्नियत इति व्यावहारिकी सर्वेषां दिन भवति / कथं पुनर्व्यवहारमात्रमेवेद निरपेक्षमिति ? / उच्यते यतोऽस्माकं यत्रादित्य उदेति सा प्राची, सैव च पूर्वविदेहकानां प्रतीची, तत्रादित्यस्यास्तमितत्वाद्, विप्रतिषिद्धं चेदम्, एवमन्यास्वपि योज्यम्, तस्माद् व्यवहारमात्रमिदं, न निश्चय इति / अथ नैश्वयिकी दिक् कथं प्रतिपत्तव्येत्यत आह शशिकागो भा०-लोकमध्यावस्थितं त्वष्टप्रदेशं रुचकं दिग्नियमहेत क्षया व्यवस्था प्रतीत्य यथासम्भवं भवतीति // 10 // __टी०-लोकमध्यावस्थितमित्यादि / तिर्यग्लोकमध्यावस्थितः समतलभूभागमेरुज्यवस्थितो वियत्प्रदेशाष्टकनिर्माणो रुचकश्चतुरस्राकृतिः / स किल दिशामैन्द्रयादीनां विदिश चानेयादीनां प्रभवः, तत्र दिशो द्विप्रदेशादिकाः प्रदेशद्वयोत्तरवृद्धया वर्धमाना महाशकटोद्धिसंस्थानाः सादिका विगतपर्यवसाना नभोदेशैरनन्तैर्विशिष्टाकृतिलब्धव्यवस्थानैर्जनितस्वरूपाश्चतस्रः, विदिशस्तु मुक्तावलीसन्निभा एकैकाकाशदेशरचनाहितस्वरूपाः सादिकाश्चापर्यवसिताथानन्तप्रदेशाश्वतस्र एव,उपरिष्टात्तानेव चतुरः प्रदेशानवधीकृत्योपरिस्थितचतुःप्रदेशादिका नुत्तरा विमला नाम दिग्भवति, तथाऽधस्तात् तमोऽभिधानाऽधस्तनाकाशप्रदेशचतुष्टयप्रवहेति। एताश्चानादिकालसन्निवेशिन्यस्तथाऽनादिकालप्रसिद्धनामानो निश्चयनयावलम्बनात् प्रतिपतव्याः / न तदङ्गीकरणेनोत्तरतो मेरुरुच्यत इति / अतस्तमेवंविधं रुचकं दिग्नियमहेतु प्रतीत्य यथासम्भवं-येन प्रकारेण यस्याः सम्भवो द्विप्रदेशादिकेन द्वयुत्तरादिना एकप्रदेशादिना चानुत्तरेण तथा चतुःप्रदेशादिनाऽनुत्तरेणैव यथासम्भवं भवतीत्युच्यत इति // 10 // १'सा प्रतीचा' इति क-पाठः। २'चाट.' इति घ-पाठः / 3 'स्थितांश्च०' इति ग पाठः।