________________ सूत्र 31] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 415 इदानीमवक्तव्यताविभावनायाह ___भा०–तदुभयपर्याये वा, तदुभयपर्याययोर्वा, तदुभयपर्यातृतीयो विकल्पः येषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा, न वाच्यं सदसदिति वा। टी०-तदुभयपर्याये वेत्यादि / तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसम्परिग्रहार्थः, उभयश्चासौ पर्यायश्च उभयपर्यायोऽस्तित्वनास्तित्वलक्षणः स चासावुभयपर्यायश्च तदुभयपयोयस्तदुभयपर्यायनिमित्तस्तद्विषयो वाऽप्यादेशस्तेनार्पितमात्मतत्त्वमस्तिनास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यम्, ताभ्यामुभयपर्यायाभ्यामादिष्टं युगपदात्मरूपं द्रव्यं वेत्यादि विकल्प्यते, न वाच्यं सदित्यसदिति वा सद् द्रव्यमसद् वा द्रव्यं न वक्तव्यम्, क्रमेण त्वादेशे भवत्येतदेवम्, सहभावाणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयम्, एकस्मिन् काले तादृग्विधवाचकशब्दाभावात् // ननु च तदुभयपयोये वेत्येकवचनमनुपपन्नम्, एकपर्यायविवक्षायामवक्तव्याभावात् / अत्रोच्यते-उभयग्रहणाद् द्वयमत्र गृह्यते / एवं तर्हि तदुभयपर्याययो।त्यस्मादविशेषः, नैतदेवम् , यतस्तदुभयपर्याये विशेषविवक्षयाऽस्तित्वं हि स्वपर्यायविषयं परपर्यायविषयं चेत्युभयपर्यायस्तत् तु खपोयेणावच्छिद्यमानमिहास्तीति गृह्यते, तदेव च परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यमिदानीमुभयपर्यायो युगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु प्रधानभेदव्याख्यायां द्विवचनादिनिर्देशः समीचीनः, जातिविवक्षायां वा जातेरेकत्वादेकवचनसिद्धिरिति // __एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः सङ्ग्रहव्यवहारानुसारिण आत्मद्रव्ये, सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकारः . भा०-देशादेशेन विकल्पयितव्यमिति / टी-इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः। पर्यायास्तिकमिति नपुंसकलिङ्गप्रकान्तेविंकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति / अयमभिप्रायो भाष्यकारस्य लक्ष्यते-सकलादेशसंयोगाचतुणों निष्पत्तिरिति सुज्ञानाः, तत्रायद्वितीयविकल्पसंयोगे तुर्यविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चेति / प्रथमतृतीयविकल्पसंयोगे पञ्चमविकल्पनिष्पत्तिः स्यादपर्यायादेशविकल्पाः स्ति चावक्तव्यश्चेति / द्वितीयतृतीयविकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः स्यान्नास्ति चाक्तव्यश्चेति / प्रथमद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चावक्तव्यश्चेति / तत्रायेषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते / तदाह-देशादेशेनेत्यादि / 'किं कारणं पुनर्भाष्यकृता' इति क-ख-पाठः / 2 विकलीकृतं ' इति क-ख-पाठः /