________________ 414 तत्त्वार्थाधिगमसूत्रम् [ अध्याय: 5 प्रकृत्यर्थं प्रयुक्तान्यतरैवकारं वा परप्रतिपन्नैकान्तधर्मविशिष्टं वस्तु कथञ्चित् नियमकारिधर्मप्रत्यनीकपर्यायधर्मसम्बन्धीति स्यात् सत् स्यादनित्यनित्यादिधर्मात्मकमित्थं धर्म्यपीति वा स्याद्वादिभिः प्रतिज्ञायते, सुलभहेतुदृष्टान्तत्वात् , अतो द्रव्यास्तिकनयार्पणात् सोऽयं धय॑भे. देनैव व्यपदेशः प्रत्यभिज्ञाप्रधानत्वात् , पर्यायार्थिकनिर्देशादस्येदमिति भेदभाक्त्वम् , एकवचनादिप्रदर्शनं चैकस्यैव सत्त्वस्यासत्त्वस्य वा भजनाप्रभावितमनेकत्वमिति प्रतिपादनार्थम् , तत्र सद्भावपर्यायनिमित्तेनादेशेनार्पितमात्मरूपद्रव्यमित्येव सद्रव्यत्वमेव हि सद्भावपर्यायः, तद्धि द्रवति पर्यायान् द्रूयते वा तैर्द्रव्यमनेनाकारेणार्पितं स्यादस्तीत्युच्यते, तस्य द्रव्यत्वादेः पर्यायस्यात्मपरिणामिकारणप्रभावितत्वात् ताद्रूप्याच्च, तच्चास्तित्वं शेषषइविकल्पापेक्षमेव सङ्गतिमनुभवति, सद्भावपर्यायद्वयनिमित्तादेव ज्ञानदर्शनोपयोगद्वयकारणक आदेशो द्रव्यम् , वक्ष्यत्युपरि-द्रव्याश्रया निर्गुणा गुणाः (अ०५,सू०४०) इति / तथा गणतिथसद्भावपर्यायकारणो पाध्यमादेशश्चैतन्यज्ञानदर्शनोपयोगाश्रयो द्रव्यमिति, एवं द्वे द्रव्ये बहूनि वाऽप्युक्तेन प्रकारेणा पितानि सद्भावपर्यायापेक्षया सधपदेशभाञ्जि भवन्ति, अथवैकसद्भावासद्भवापेक्ष- स्मिन् सद्भावपर्यायविषयेऽपितमादिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा था द्रव्यस्यैकत्वादि- सत् तथा द्वयोर्बहुषु विभाव्यम्, अविशिष्टस्य वा द्रव्यपदार्थस्यैकत्वद्वित्व बहुत्वपर्यायाः, तथा च तदर्यमाणं स्यादस्त्येकत्वेनार्पितमेकसङ्ख्या विशेषरूपतयेवास्ति न द्वित्वबहुत्वाकारेण, अनेकधर्मिणो हि वस्तुनः कदाचित् किश्चिद् विवक्ष्यते, युगपद्भरिवक्तृविवक्षायामप्येकत्वादयो यौगपद्येनार्पणावशादुपलभ्यन्ते, सकलपर्यायशक्तिसङ्गतेः परिणामिनः, एकपुरुषाधारमातुलभ्रातृभागिनेयादिशक्तिवत् , एकेन वक्त्रा विवक्षिते प्रयोजनवशादेकत्वद्वित्वादि च सम्भवदप्युपेक्षितं प्रयोजनाभावात् , अतस्तस्य तेनैव विवक्षिताकारेण कार्यसिद्धेः स्यादस्त्यात्मेत्युच्यते, न सर्वपर्यायार्पणया तदा ___ तदस्ति तस्य वक्तरिति प्रथमविकल्पभावना // द्वितीयो विकल्पः भा०---असद्भावपर्याये वा, असद्भावपर्याययोवा, असद्भाव पर्यायेषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वाऽसत् / टी०-असद्भावपर्याये वेत्यादिना द्वितीयविकल्पं भावयति। आत्मनो ज्ञानदर्शनादिव्यतिरिक्ता गतिस्थित्यवगाहोपकारस्पर्शादयोऽसद्भावपर्याया वर्तमानजन्मनो वाऽतीतानागतास्तजन्मनि वाऽतिक्रान्तागामिनः सर्वेऽप्यसद्भावपर्यायाः तदर्पणया स्यानास्त्येवात्मेति, न सर्वथा नास्तित्वप्रतिपत्तिः, यदाऽऽत्मा गत्युपकारकपर्यायेणार्पितस्तदाऽऽत्मद्रव्यमसत्, तत्स्वभावकत्वेन तस्याद्रवणात्, सद्भावपर्यायप्रभावितं वा द्रव्यं स्वपरिणामिप्रभाविता वा पर्यायास्तत्र चैकमपि नास्तीत्यतोऽसदित्युच्यते,परपर्यायार्पणया नास्ति तदित्यर्थः / शेषं पूर्ववद् विभाव्यम् // विचार 1' तर्षभाव ' इति क-ख-पाठः /