________________ सूत्रं 34] स्वोपज्ञभाष्य-टीकालङ्कृतम् यावत्यो जातयस्ताव दा योनयोऽपि पृथिवीकायस्येत्यवगन्तव्यम् / न च मूलयोनिमतिवर्तन्ते ताः, किन्तु जातिभेदाद् भिद्यन्त इति, अतः सङ्ग्राहकम् , एवं शेषाणामपि वाच्यम् , स्वजातिभेदापेक्षमेतत् परिमाणमिति // 33 // अत्राह-उक्तं त्रिविधं जन्म, तत्र न संविद्महे तस्य त्रिविधस्यापि जन्मनः के स्वामिन इति, तद्विभागप्रदर्शनायेदमुच्यते सूत्रम्-जराय्वण्डपोतजानां गर्भः // 2-34 // भा०–जरायुजानां मनुष्य-गो-महिष्यजाविकाश्व-खरोष्ट्र-मृग-चमर-वराह . गवय-सिंह-व्याघ्रः-दीपि-श्व-शृगाल-मार्जारादीनाम् / अण्डगर्भजजन्मवतां भेदाः पता जानां सर्प-गोधा-कृकलास-गृहकोकिलिका-मत्स्य-कूर्म-नक्र शिशुमारादीनाम् / पक्षिणां च लोमपक्षाणां हंस-चाप-शुकगध्र-श्येन-पारापत-काक-मयूर-मण्डू-बक-बलाकादीनाम् / पोतजानां शल्लक हस्तिश्वाविल्लापक-शश-शारिका-नकुल-भूपिकादीनाम् , पक्षिणां च चर्मपक्षाणां जलूका वल्गुलि-भारण्ड-पक्षिविरालादीनां गर्भो गर्भाज्जन्मेति // 34 // टी-जराय्वण्डपोतजानां गर्भः / अत्रायं जनिः प्रत्येकमभिसम्बध्यते, जरायुजाना अण्डजानां पोतजानामिति / जरायुनि जायन्ते स्म जरायुजाः-जरायुमध्यगताः, जरायुवेष्टिता इत्यर्थः / जरायुजानां मनुष्य-गो-महिप्यादीनामिति सुज्ञानं भाष्यम् / अण्डे जायन्ते स्माण्डजाः, तेषां अण्डजानां सर्प-गोधादीनामिति भाष्यं सुखावबोधमेव / अण्डजजातिभेदप्रदर्शनायेदं भाष्यम् / पक्षिणां च लोमपक्षाणां हंस-चाषेत्यादि प्रायो गतार्थम् / लोमप्रधानाः पक्षा येषां ते लोमपक्षाः, अपरे लोमपक्षिणामित्यधीयन्ते न तु च मत्वथीयोऽतिदुर्लभः स्याद् वा ज्ञापकादेः कथञ्चित् , अथवा पक्षिण एव विशिष्यन्ते, लोमानुगता लोमप्रधाना वा पक्षिणो लोमपक्षिणस्तत्राद्यपक्षिशब्दः पक्षिसामान्यमावेदयति, इतरस्तु व्यवच्छिद्य विशेषेऽवस्थापयतीति / पोता एव जाता इति पोतजाः शुद्धप्रसवा न जराग्वादिना वेष्टिता इतियावत् / अत्र च "अन्येष्वपि दृश्यन्ते" इति वचनाड्डः, अपरे त्वेतच्छब्दव्युत्पत्तिभीत्या जराय्वण्डजपोतानां गर्भ इत्यभिधीयते-सूत्रमाहितनैपुण्यास्तत् सर्वथा त एवावयन्ति सूरिविरचितन्यासमन्यथाकर्तुम्, वयं तु प्रकृतानुसरणमेव कुर्मः। पोतजानां शल्लकादीनामित्यादि भाप्यमतिस्फुटत्वान्न वित्रियते / पक्षिणां च चर्मपक्षाणामित्यादि / अत्रापि पूर्ववद् व्याख्या कार्या, शेपमतिस्पष्टमेव / गर्भो जन्मति उक्तलक्षणमेषां प्राणिनामशेषाणां गर्भो जन्म भवतीति // 34 // 1 'मद्' इति घ-पाठः। 2 'गर्भो जन्मेति' इति घ-पाठः। 3 ' अत्र च'' तत्तु च ' इति पाठी विचारणीयौ। 4 'अभिदधते ' इति प्रतिभाति / 25