________________ 194 तत्त्वार्थाधिगमसूत्रम् [अभ्यायः अथेदानीमुपपातजन्मविभक्तये सूत्रमाह सूत्रम्-नारकदेवानामुपपातः // 2-35 // उपपातजानां भेदाः भा०–नारकाणां देवानां चोपपातो जन्मेति // 35 // टी०-नारकदेवानामिति गत्यपेक्षः क्रमव्यपदेशः / अपरे अमिदधते अभ्यर्हितत्वादल्पान्तरत्वाच्च, यदादावाचार्येण देवा न न्यस्तास्तज्ज्ञापयति जन्मनो दुःखहेतुत्वं तच्च प्रकृष्टं किल नारकेष्विति तेषां नारकाणां देवानां च उक्तलक्षण उपपातो जन्म भवति // 35 // अधुना सम्मूछेनजन्मविभक्तुकाम आह सूत्रम्-शेषाणां सम्मूर्च्छनम् // 2-36 // भा०-जराय्वण्डपोतजनारकदेवेभ्यः शेषाणां सम्मूर्छनं जन्म / उभया _ वधारणं चात्र भवति / जरायवादीनामेव गर्भः, गर्भ एष समूच्छना जावा जेरायवादीनाम् / नारकदेवानामेवोपपातः, उपपात एव नारक. देवानाम् / शेषाणामेव सम्मूर्छनम्, सम्मूर्छनमेव शेषाणाम् // 36 // ____टी-शेषाणां सम्मूछनम् / उक्तव्यतिरिक्ताः शेषाः, के पुनरमिहिता जरास्वण्डपोतजनारकदेवा एभ्यः शेषाणां जीवानां पृथिवीजलानलानिलतरुद्वित्रिचतुरिन्द्रियगर्भः व्युत्क्रान्तिपञ्चेन्द्रियतिर्यङ्मनुष्याणां सम्मूर्च्छनं जन्माभिहितलक्षणं भवति / शेषग्रहणं लापपार्थमानन्त्यख्यापनार्थं च जन्मभाजां सूरिणाऽकारि। अथवा सामर्थ्यलभ्यं जन्म शेषाणामतः शेषमर्थाद् भविष्यति तस्मादुभयोर्नियमप्रतिपादनायेदं शेषग्रहणमाश्रीयते / योगत्रयमपि चैतजन्मवतां जन्मसङ्करनिवारणार्थमाचार्येण प्राणायीति, अतस्तनिवारणार्थ परस्परावधारणदिदर्शयिषयाऽऽख्याति-उभयावधारणं चात्र भवति जरोय्वादीनामेव गर्भः, गर्भएष जरायवादीनाम् जराय्वादयो गर्भश्च एतदुभयमस्यावधारणमवच्छेदो भवति / चशब्द एकशब्दार्थे / उभयावधारणमेव नान्यतरावधारणमनवधारणं वा / प्रथमोपन्यासेन गर्भोऽवधार्यते जराय्वादयोऽनवधृतास्तेऽनु पाश्चात्योपन्यासेऽवच्छिद्यन्ते-गर्भ एव जराय्यादनिामिति / गर्भो जराय्वादीन न जहाति, जराय्वादयोऽपि गर्भ न त्यजन्तीति समुदायार्थः / एवमितरत्रापि योगद्वये वाच्यमवहितमानसेन / किं पुनः कारणं येनान्तराले योनिसूत्रमधीतं, न जन्मसूत्रानन्तरमेव जन्मविभागः कृत इति ? / उच्यते-जन्मनो योनेच यकत्तकद्वान्तरमित्यस्यार्थस्य ज्ञापनाय जन्मसूत्रानन्तरमेव योनिसूत्रोपन्यास इति // 36 / / अत्रा.-तेषु जन्मसु यथोक्तयोनीनां जीवानां कानि शरीराणि कियन्ति वा किलक्ष. णानि वा भवन्तीति / अत्रोच्यते ''जरायुजादीनाम् ' इति घ-पाठः।