________________ सूत्रे 37 स्वोपज्ञभाष्य-टीकालङ्कृतम् 195 . सूत्रम्-औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि // 2-37 // टी-अत्र केचित् सूत्रावयवमवच्छिद्य शरीराणीति पृथक् सूत्रं कल्पयन्ति, अधिका रार्थमतिबहुवाच्यमेतच्छरीरप्रकरणमतोऽधिकार इति, अत्रोच्यते-गौरवसूत्र-विचारः र मात्रमपास्यैवमवच्छिन्दानैः सूत्रमन्यन्न किञ्चिदाप्तं स्यात् सूत्रपर्यन्ते हि वर्तमानं शरीरग्रहणं नाधिक्रियते पृथगुपन्यस्तमादावधिकाराय जायत इति काऽत्र युक्तिस्तैराश्रयणीया शरणायेति / भा०-औदारिक, वैक्रिय, आहारकं, तैजसं, कार्मणमित्येशरीरभेदार तानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति // 37 // औदारिकादिशरी-. टी०-औदारिक वैक्रियमित्यादि / तत्रोदारं वृहदसारं यद् द्रव्यं राणा व्युत्पत्तिः तन्निवृत्तमौदारिकमसारस्थूलद्रव्यवर्गणासमारब्धमौदारिकप्रायोग्यपुद्गलप्रहणकारणपुद्गल विपाक्यौदारिकशरीरनामकर्मोदयनिष्पन्नम् / एवमितरशरीरेष्वपि वैक्रियादिशब्दप्रक्षेपादेष दण्डको वाच्यः / विक्रिया विकारो बहुरूपतानेककरणं तया निवृत्तमनेकाद्भुताश्रयं विविधगुणासम्प्रयुक्तपुद्गलवर्गणाप्रारब्धं वैक्रियम् / शुभतरशुक्ल विशुद्धद्रन्यवर्गणाप्रारब्धं प्रति विशिष्टप्रयोजनायाहियतेऽन्तमुहर्तस्थित्याहारकम् , कुल्ल्युटो बहुलबचनात् / तेज इत्यग्निः, तेजोगुणोपेतद्रव्यवर्गणासमारब्धं तेजोविकारस्तेज एव या तैजसमुष्णगुणं शापानुग्रहसामर्थ्याविर्भावनं तदेव यदोत्तरगुणप्रत्यया लब्धिरुत्पन्ना भवति तदा परं प्रति दाहाय विसृजति रोपविपाध्मातमानसो गोशालादिवत् , प्रसन्नस्तु शीततेजसाऽनुगृह्णाति / यस्य पुनरुत्तरगुणलब्धिरसती तस्य सततमभ्यवहृताहारमेव पाचयति, यच तत् पाचनशक्तियुक्तं तत् तैजसमवसेयम् / कर्मणा निवृत्तं कामणम् , अशेषकर्मराशेराधारभूतं कुण्डवद् बदरादीनामशेषकर्मप्रसवसमर्थ वा यथा वीजमकुरादीनाम् , एपा च किलोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदायभूतादित्यतः कर्मैव कार्मणम् / परे नेच्छन्ति स्वार्थप्रत्ययमुपपत्तीश्चाभिदधते, न किल कर्माप्येव कार्मणं ज्ञानावरणादीनां तदाश्रयत्वाञ्चक्षुरादिवज्ज्ञानावरणादीनां तदाश्रयभूतकामणमाश्रयत्वेन व्यवतिष्ठमानं कथं ज्ञानावरणादिमात्रमेव स्याद , यथा चक्षुरादीनामौदारिकशरीरमाश्रयकारणमन्यदन्यानि चेन्द्रियाणि तथा कार्मणमपि कर्मभ्योऽन्यद्, यदि च तन्न स्यात् कुण्डभेदाद् बदराणामिवेतस्ततः पतनं स्यात् कर्मणामनिष्टं चैतत् , तस्माद् यदेपामाश्रयकारणं तत् कार्मणं शरीरमिति। उत्पत्तिकारणभेदाच पृथक् कर्मभ्यः कार्मणम् , बन्धननामकर्मप्रत्ययं प्रद्वेषादिनिमित्तं च कर्मोत्पद्यत इत्याप्तोपदेशः, शरीराणां तु स्वशरीरनामकर्मोदयादुत्पत्तिरतोऽन्यत्वम् , पाकभेदाच्चान्यत् ज्ञानावरणादि कर्म पच्यमानं मृढताद्युत्पादयति, कार्मणशरीरकारणपाकस्तु कार्मणमेव शरीरमारभते, तस्मादन्यत् पूर्वोत्तरकालं बन्धाविनिवृत्तेश्चान्यत्वं मोहज्ञानावरणादिवत् , अनिवृत्तिस्थाने हि विनिवर्तते बन्धः कार्मणस्य,