________________ योनिविभागः 192 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 अपरे वर्णयन्ति-असृक् सचेतनं शुक्रमचेतनमिति, अन्ये युवते-शुक्रशोणितमचित्तं योनिप्रदेशः सचित्त इत्यतो मिश्रा / त्रिविधाऽन्येषामिति / देवनारकगर्भव्युत्क्रान्तितियङ्मनुष्यव्यतिरिक्तानां सम्मूर्च्छनजन्मनां तिर्यग्मनुष्याणामित्यर्थः / तेषामनियमेन कदाचित् सचित्ता कदाचिदचित्ता कदाचिन्मिश्रेति, यथा गोकृम्यादीनां सचित्ता, काष्ठघुणादीनामचित्ता, केषाश्चित् पूर्वकृतक्षते समुद्भवतां मिश्रेति // अधुना शीतादित्रिकं विभंजते-गर्भजन्मनां देवानां च शीतोष्णा गर्भव्युत्क्रान्तीनां तियग्मनुष्याणां देवानां चोभयस्वभावा स्वभावादेव जायते, देवानां साधारणा सुखबहुलत्वात् क्षेत्रानुभावाच, तेजसः उष्णाऽत्यन्तप्रसिद्धेव / त्रिविधाऽन्येषाम् / अन्येषामिति गर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवतेजोव्यतिरिक्तानां सम्मूर्च्छनजन्मतिर्यग्मनुष्यनारकाणाम् , सम्मूर्च्छनजतिर्यग्मनुष्याणां कस्यचिच्छीता कस्यचिदुष्णा कस्यचिदुभयस्वभावा, स्थानविशेषादिति, नारकाणामाये पृथिवीत्रये नारकादिषु दक्ष प्रकृष्टोष्णा, चतुर्थी कचिन्नरके शीता कचिदुष्णा तथा पञ्चम्याम् / कथं पुनर्भिन्नाधारोभयस्वभावा स्यात् ? उच्यते-एकस्यां पृथिव्या. मुभयमस्तीति न भिन्नाधारत्वम् // ननु तत्रापि नारकभेदवर्तित्वादनुभयस्वभावत्वमेवेति ? उच्यते-चतुर्थपञ्चमपृथिवीनारकाणामुभयस्वभावेति सामान्याभिधानाददोषः। पाश्चात्ययोईयोः प्रकृष्टशीता, न त्वेषां साधारणाऽस्ति दुःखात्मकत्वात् , यद्यप्यविशेषेणोक्तं त्रिविधाऽन्येपामिति तथापि यथासम्भवमत्र विभागः / संवृतादित्रयविभागार्थमाह-नारकैकेन्द्रियदेवानां संवृता / नारकाणां पृथिव्यप्तेजोवायुवनस्पतीनां च सहदेवानां सङ्कुटा, प्रच्छन्नेत्यर्थः / नारकाणां वज्रमयनरककुड्यव्यवस्थितत्वात् सङ्कुटा सती प्रवर्धमानवपुषामतिदुःखा, देवानां पुनः (प्रच्छन्ना अपि ) प्रच्छदपटदेवदृष्यान्तरालवर्तिनी समुच्छ्वसच्छरीरभाजां सोच्छ्वासत्वादेव न दुःखा, पृथिव्यादीनां केषांचित् कथञ्चिदवगन्तव्या / गर्भजा नां मिश्रा गभेव्युत्क्रान्तितियेग्मनुष्याणां संवृतविवृता सङ्कुटप्रकाशेत्यर्थः। विवृताऽन्येषां नारकैकेन्द्रियदेवगर्भव्युत्क्रान्तितियेङ्मनुष्यव्यतिरिक्तानां सम्मूच्छेनजद्वीन्द्रियादितिर्यङ्मनुप्याणामित्यर्थः / तेषां विवृता, अतिप्रकाशत्वात् // अथ कथं योनिलक्षाणामशीतिश्चतुरुत्तरा प्रतिजाति प्रतिपादिता प्रवचने ? / तद् यथा-पृथिव्यतेजोवायूनां प्रत्येकं सप्त सप्त योनिलक्षाः, . प्रत्येकवनस्पतीनां दश, साधारणानां चतुर्दश, द्वित्रिचतुरिन्द्रियाणां प्रत्येक जीवयोनिसंख्या द्वे द्वे लक्षे, शेषतिर्यङ्नारकदेवानां प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुष्याणां चतुर्दश, इह तु नव योनयः प्रतिबद्धाः सूत्रे तदेतदतिविप्रकृष्टमन्तरालमुपक्षिपति चेतः संशयदोलायामस्माकमतोत्राभिधीयतां समाधिः। अयमुच्यते-नव योनय इति सङ्ग्राहकमेतदासां परिसङ्ख्यानमवसेयम् , विस्तरः प्रतिजाति वक्तव्यः, पृथिवीकायस्य याऽभिहिता योनिः सैव स्वजातिभेदापेक्षया सप्तलक्षपरिमाणा भवति शर्करावालुकादिभेदा 1 'विभज्यते' 'विभजन्ते ' इति-ग-टी-पाठौ। 2 धनुश्चिह्नितो भागः ग-पाठ एव /