________________ सूत्र 33 ] 191 योनिल स्वोपज्ञभाष्य-टीकालङ्कृतम् .टी-अथवाऽयमात्मा पूर्वभवशरीरनाशे तदनु शरीरान्तरप्राप्तिस्थाने यान् पुद्गलान् शरीरार्थमादत्ते तान् कार्मणेन सह मिश्रयति तप्तायःपिण्डाम्भोग्रहण" वच्छरीरनिवृत्यर्थ बाह्यपुद्गलान् यस्मिन् स्थाने तत् स्थानं योनिस्तअविभागार्थमिदमुच्यते-सचित्तेत्यादि / संसारे जीवानामित्यादि / अष्टप्रकारकर्मवर्तिनां जन्तूनाम् , अस्य अनन्तरमूत्रनिर्दिष्टस्य त्रिभेदस्य सम्मूछनादेः / जन्मन इत्यनेन च तद्योनय इति सूत्रावयवार्थमाचष्टे, तस्य जन्मनो योनयस्तधोनय इति, एताः सचित्तादयः, एता इति प्रत्यक्षासन्नाः सचित्तशीतसंवृतास्तिस्रः, सपतिपक्षाः, सह प्रतिपक्षरचित्तोष्णविवृतैः सप्रतिपक्षाः, प्रतिक्रष्टः प्रत्यनीको वा पक्षः प्रतिपक्षः, मिश्राश्च एतद्द्वयमेकीभूतं मिश्रमुच्यते, तच्चोक्तमेव द्वयं गृह्यते प्रस्तावान्न तु तद्वयतिरिक्तं सचित्तादित्रयमचित्तादित्रयं च एतदेवोभयं मिश्रीक्रियते, यस्य च मूलभेदस्य यत् प्रतिपक्षत्वेन निर्दिष्टं तयोयोर्मिश्रणम् , तद्यथा-सचित्ताचित्ता, शीतोष्णा, संवृतविघृता, चशब्दः समुच्चये, एकैका एकशः, एकैका सेतरा सचित्तादीनाम् , _. एकेका च मिश्रा स्वप्रतिपक्षेणैव, एवमेता नव योनयो भवन्ति / योनिशब्दस्यार्थः / पाया युवन्ति-मिश्रीभवन्ति यत्र स्थाने जन्महेतुद्रव्याणि कार्मणेन सह तद्योनिः, तच्च स्थानमाश्रयभावेन यूयत इति योनिः / अमुमेवातिक्रान्तमर्थ स्पष्टयन्नाहतद्यथा-सचित्तेत्यादि / विशिष्टप्रतिपक्षदर्शनार्थ मिश्रार्थप्रतिपादनार्थ चेदं भाष्यम् / सचित्ता जीवप्रदेशाधिष्ठिता 1 अचित्ता तद्विपरीता 2 सचित्ताचित्ता प्रस्तुतद्वयस्वभावमिश्रा 3 शीता शिशिरा 1 तद्विपरीतोष्णा 2 उभयस्वभावा मिश्रा 3 संवृता प्रच्छन्ना सङ्कटा वा 1 तद्विपरीता विवृता 2 मिश्रोभयस्वभावा 3 एतावत्यो योनयः। .. ' सम्प्रति जन्मभाजां विभज्यन्ते कस्य का योनिर्भवतीत्याह-तत्र आसां मध्ये 1. योनीनां देवनारकाणामचित्ता योनिर्भवति, शेषा व्युदस्यन्ते कस्य का योनिः / // देवानांप्रच्छदपटदेवदूष्यान्तरालं योनिस्तच्चाचेतनं, न जीवप्रदेशाधिष्ठितम्, नारकाणां तु वज्रमयनरककुडयेषु वातायनकल्पा योनयो भवन्त्यचेतनाः, गर्भजानां मिश्राः तिर्यश्चो मनुष्याश्च गर्भजन्मभाजस्तेषां मिश्राः, प्रागचित्तायाः प्रस्तुतत्वात् सचित्ताचित्तेत्यर्थः। ___योषितां किल नाभेरधस्तात सिराद्वयं पुष्पमालावेकक्ष्यकाकारमस्ति, तस्यायोषियोनिविचारः धस्तादधोमुखसंस्थितकोशाकारा योनिस्तस्याश्च बहिचूतकलिकाकृतयो मांसमञ्जर्यो जायन्ते, ताः किलासृक् स्फुटित्वा ऋतौ स्रवन्ति, तत्र केचिदसृजो लवाः कोशकाकारां योनिमनुप्रविश्य सन्तिष्ठन्ते, पश्चाच्छुक्रसम्मिश्राँस्तानाहारयन् जीवस्तत्रोत्पद्यते, तत्र ये योन्याऽऽत्मसात्कृतास्ते सचित्ताः कदाचिन्मिश्रा इति, ये तु न स्वरूपतामापादितास्तेऽचित्ताः, १'तद्वा' इति क-ख-पाठः।