________________ उपपातजन्मनः स्वरूपम् 190 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः मापादयन्तीत्याध्यात्मिकपुद्गलोपमर्दनलक्षणमेतजन्म, प्रत्यक्षं चैतत्, प्रायस्तत्र गर्ता . ग्रुपलब्धेः / तथा योषियानावकध्यमागत्य ग्रहणं शुक्ररक्तयोर्यत् क्रियते गर्भजन्मनो विचार जीवेन जनन्यभ्यवहृताहाररसपरिपोषापेक्षं तद् गर्भजन्मोच्यते, अत्रापि गर्भ एव जन्म प्रतिपत्तव्यम् / इदं पूर्वजन्मनो भिन्नलक्षणम्, आगन्तुकशुक्रशोणितग्रहणात्, न खलु योषियोनेस्तदेव शुक्रशोणितं स्वरूपमतोऽस्ति भेदः / तथा उपपातक्षेत्रप्राप्तिमात्रनिमित्त ___ यजन्म तदुपपातशब्देनोच्यते, यथा प्रच्छदपटस्योपरिष्टाद् देवदूष्यस्या- धस्तादत्रान्तरालवर्तमानान् पुद्गलान् वैक्रियशरीरतयाऽऽददानो देवः समुद्भ वति. इदं च पूर्वाभ्यां भिन्नलक्षणम् , नहि प्रच्छदपटदेवष्यपुद्गलानेवासी शरीरीकरोति, नापि शुक्रादिपुद्गलानाददान उत्पद्यते, तस्मात् प्रतिविशिष्टक्षेत्रप्राप्तिरेवास्य जन्मनो निमित्तं भवति, तथा नारकाणां नरककुड्यव्यवस्थितातिसङ्कुटमुखनिष्कुटा वातायनकल्पा योनिस्तत्र वैक्रियशरीरपुद्गलानादाय निष्पीडयमाना वज्रमयनरकतले जलमध्यक्षिप्तपाषाणवन्महता वेगेन प्रतिपतन्ति / एवमेतत् त्रिविधं जन्म वेदितव्यमात्मनः शरीरतयात्मलाम इति / अपरे वर्णयन्ति-सम्मूछेनमेवैकं सामान्यतो जन्म, तद्धि गर्भोपपाताभ्यां विशेष्यत इति // 32 // अत्र च सम्मूर्च्छनमादौ, प्रत्यक्षबहुस्वामित्वात् / तदनु गर्भः, प्रत्यक्षौदारिकशरीर___साधर्म्यात् / तत उपपातः, स्वामिवैधात् , इति / उक्तं जन्म प्रादुर्भा बन्यवमानं शरीरिणाम् , न तु प्रतिविशिष्टस्थाननिर्देशः कृतः, कीशि पुनः स्थाने प्रथमत उत्पद्यमानाः सम्मूर्च्छन्ति, शुक्रासग्ग्रहणं वा कुर्वन्ति, वैक्रियशरीरं वा समाददते, किंगुणे धामनि नारकदेवा इति ? अतस्तेषां जन्मनां विशिष्टस्थाननिरूपणाय योनयोऽभिधीयन्तेसूत्रम्-सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः॥२-३३॥ भा०-संसारे जीवानामस्य त्रिविधस्य जन्मन एताः सचित्तादयः सप्र तिपक्षा मिश्राश्चैकशो योनयो भवन्ति / तद्यथा-सचित्ता, जन्मिनां - अचित्ता, सचित्ताचित्ता, शीता, उष्णा, शीतोष्णा, संवृता, योनिनवकम् - विवृता, संवृतविवृता, इति / तत्र नारकदेवानामचित्ता योनिः। गर्भजन्मनां मिश्रा / त्रिविधाऽन्येषाम्। गर्भजन्मनां देवानां च शीतोष्णा / तेजःकायस्योष्णा। त्रिविधाऽन्येषाम् / नारकैकेन्द्रियदेवानां संवृता। गर्भजन्मनां मिश्रा / विवृताऽन्येषामिति // १'देवनारकाना ' इति घ-पाठः।